पृष्ठम्:मृच्छकटिकम्.pdf/१५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४९
पञ्चमोऽङ्कः

 वसन्तसेना–णं णिउणोत्ति भणाहि ।। ननु निपुण इति भण।]

 चाटी-एसा खु अज्जआ एवं पुच्छिदुं आअदा---'केत्तिअं ताए रअणावलीए मुल्लं त्ति । [ एषा खल्वार्या एवं प्रष्टुमागता–‘किय- त्तस्या रत्नावल्या मूल्यम्' इति । ]

 विदूषकः----( जनान्तिकम् ) भो ! भणिदं मए-जधा अप्पमुल्ला रअणावली, बहुमुल्लं सुवण्णभंडअं । ण परितुट्टा अवरं मग्गिदुं आअदा । [भोः! भणितं मया-यथाऽल्पमूल्या रत्नावली, बहुमूल्यं सुवर्ण- भाण्डम् । न परितुष्टा, अपरं याचितुमागता ।]

 चेटी-सा खु अज्ञआए अत्तणकेरकेत्ति भणिअ जूदे हारिदा । सो अ सहिओ राअवात्थहारी ण जाणीअदि कहिं गदो त्ति । [ सा खल्वार्यया आत्मीयेति भणित्वा द्यूते हारिता । स च सभिको राजवार्ताहारी न ज्ञायते कुत्र गत इति ।]

 विदूषकः----भोदि ! मंतिदं ज्जेव मंतीअदि । [ भवति ! मन्त्रितमेव मन्त्रयते ।]

 चेटी--जाव सो अण्णेसीअदि ताव एवं जेव्व गेण्ह सुवण्णभंडअं । [ यावत्सोऽन्विष्यते तावदिदमेव गृहाण सुवर्णभाण्डम् ।] ( इति दर्शयति )

( विदूषको विचारयति )

 चेटी--अदिमेतं अज्जो णिज्झाअदि । ता किं दिट्टपुरुव्वो दे ? । [ अतिमात्रमार्यो नि1ध्यायति । तत्किं 2दृष्टपूर्वस्ते ? ।।

 विदूषकः----भोदि ! सिप्पकुसलदाए ओबंधेदि दिट्टि । [भवति ! शिल्पकुशलतयावबध्नाति दृष्टिम् ।]

 चेटी--अज्ज ! वंचिदोसि दिट्टीए । ते जेव्व एदं सुवण्णभंडअं । [ आर्य ! वञ्चितोऽसि दृष्ट्या । तदेवेदं सुवर्णभाण्डम् ।] ---

टिप्प०-1 चिन्तयतीत्यर्थः । 2 अत्र 'अलंकार' इति पदं प्रक्रान्तमेव ।