पृष्ठम्:मृच्छकटिकम्.pdf/१५६

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
१४८
मृच्छकटिके

सदा प्रदोषो मम याति जाग्रतः
सदा च मे निःश्वसतो गता निशा ।
त्वया समेतस्य विशाललोचने !
ममाद्य शोकान्तकरः प्रदोषकः ॥ ३७॥

तत्स्वागतं भवत्यै, इदमासनम् ; अत्रोपविश्यताम् ।

 विदूषकः-इदं आसणं, उवविसदु भोदी । [ इदमासनम्, उपदिशतु भवती ।।

( वसन्तसेना नाट्येनासीना, ततः सर्व उपविशन्ति)

 चारुदत्तः--वयस्य ! पश्य पश्य

वर्षोंदकमुद्गिरता श्रवणान्तविलम्बिना कदम्बेन ।
एकः स्तनोऽभिषिक्तो नृपसुत इव यौवराज्यस्थः ॥ ३८ ॥

तद्वयस्य ! क्लिन्ने वाससी वसन्तसेनायाः । अन्ये प्रधानवाससी समु- पनीयेतामिति ।

 विदूषकः-जं भवं आणवेदि । [ यद्भवानाज्ञापयति ।]

 चेटी–अज्ज मित्तेअ । चिट्ठ तुमं; अहं जेव्व अज्जअं सुस्सूसइस्सं । { तथा करोति ) [ आर्य मैत्रेय ! तिष्ठ त्वम् ; अहमेवार्यां शुश्रूषयिष्यामि ।]

 विदूषकः-( अपवारितकेन ) भो वअस्स | पुच्छामि दाव तत्थ- भोदि किं पि । [ भो वयस्य ! पृच्छामि तावत्तत्रभवतीं किमपि ।] ।

 चारुदत्तः–एवं क्रियताम् ।

 विदूषकः--( प्रकाशम् ) अध किंणिमित्तं उण ईदिसे पणट्ट- चंदालोए दुद्दिणअंधआरे आअदा भोदी ? । [ अथ किंनिमित्तं पुनरीदृशे प्रनष्टचन्द्रालोके दुर्दिनान्धकार आगता भवती १ ।।

 चेटी--अज्जए | उजुओ बम्हणो । [आर्ये ! ऋजुको ब्राह्मणः ।]


सदेति ॥ ३७॥ वर्षोदकमिति ॥ ३८ ॥ आआविओ आचार्य उपदेष्टा (?)