पृष्ठम्:मृच्छकटिकम्.pdf/१५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४४
मृच्छकटिके

प्रक्रामान्तस्तप्तं त्रि1दशपतिशस्त्रस्य शिखिना ।
द्रवीभूतं मन्ये पतति जलरूपेण गगनम् ॥ २५ ॥

अपि च, पश्य ।

उन्नमति नमति वर्षति गर्जति मेघः करोति तिमिरौघम्।
प्रथमश्रीरिव पुरुषः करोति रूपाण्यनेकानि ॥ २६॥

 विटः----एवमेतत्

विद्युद्भिर्ज्वलतीव संविहसतीवोच्चैर्बलाकाशतै-
र्माहेन्द्रेण विव2ल्गतीव धनुषा धाराशरोद्गारिणा ।
विस्पष्टशनिनिस्वनेन रसतीवाघूर्णतीवानिलै-
र्नीलैःसान्द्रमिवाहिभिर्जलधरैर्धूपायतीवाम्बरम् ॥ २७ ॥

 वसन्तसेना--

जलधर ! निर्लजस्त्वं यन्मां दयितस्य वेश्म गच्छन्तीम् ।
स्तनितेन भीषयित्वा धाराहस्तैः परामृशसि ॥ २८ ॥

भोः शक्र !

किं ते ह्यहं पूर्वरतिप्रसक्ता यत्त्वं नदस्यम्बुद ! सिंहनादैः ।
न युक्तमेतत्प्रियकाङ्क्षिताया मार्गं निरोद्धुं मम वर्षपातैः ।। २९ ।।


त्रिदशपतिशस्त्रस्य वज्रस्य २५ ॥ उन्नमतीति ॥ २६ ॥ विद्युद्भिरिति ॥ २७ ।। जलधरेति ॥ ३८ ॥ किं त इति । रतिप्रसका संभोगेन प्रसक्ता ।


टिप्प-1 त्रिदशपतिशस्त्रस्येन्द्रवज्रस्य शिखिना वह्निना, इन्द्रवज्राग्निनेत्यर्थः । अन्तस्तप्तं अत एव द्रवीभूतं गगनं जलरूपेण पततीति मन्ये इत्युत्प्रेक्षालंकारः । 2 अलंकृतं भवति । विस्पष्टः कर्णारुन्तुदं श्रूयमाणो योऽशनि नि:स्वनो वज्रनिर्घोषस्तेन रसतीव शब्दं करोतीव । अनिलैराघूर्णतीव' इति झञ्झावातवर्णनम् । नीलैरहिभिः कुष्णसर्पैः; सान्द्रं व्याप्तमिवेति मेघव्याप्तेरुत्प्रेक्षा । जलधरैर्धूपायतीवात्मानं धूषितं

करोतीवेत्याशयः ।