पृष्ठम्:मृच्छकटिकम्.pdf/१४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३९
पञ्चमोऽङ्कः

 चेटः–णं पलिवत्तिअ भणीहि । [ ननु परिवर्त्य भण।]

 विदूषकः----( कायेन परिवृत्य ) सेणावसंते । [ सेनावसन्ते ।।

 चेटः----अले मुक्ख बडुका ! पदाई पलिवत्तावेहि । [अरे मूर्ख बटुक! पदे परिवर्तय !!

 विदूषकः--( पादौ परिवर्त्य ) सेणावसंते । [ सेनावसन्ते ।

 चेटः-अले मुक्ख ! अक्खलपदाई पलिवतावेहि । [अरे मूर्ख ! अक्षरपदे परिवर्तय ।]

 विदूषकः—( विचिन्त्य) वसंतसेणा । | वसन्तसेना ।]

 चेटः--एशा शा आअदा । [एषा सागता।]

 विदूषकः–ता जाव चारुदत्तस्स णिवेदेमि । ( उपसृत्य ) भो चारुदत्त ! धणिओ दे आअदो । तद्यावश्चारुदत्तस्य निवेदयामि । भो चारुदत्त ! धनिकस्त आगतः ।]

 चारुदत्तः-कुतोऽस्मत्कुले धनिकः ।।

 विदूषकः--जइ कुले णत्थि, ता दुवारे अत्थि; एसा वसंतसेणा आअदा । [यदि कुले नास्ति, तद्वारेऽस्ति; एषा वसन्तसेनागता । ।

 चारुदत्तः--वयस्य! किं मां प्रतारयसि ? । ।

 विदूषकः–जइ मे वअणे ण पत्तिआअसि, ता एवं कुंभीलअं पुच्छ । अरे दासीए पुत्ता कुंभीलअ ! उवसप्प । [यदि मे वचने न प्रत्ययसे, तदिमं कुम्भीलकं पृच्छ । अरे दास्याः पुत्र कुम्भीलक! उपसर्प ।]

 चेदः—(उपसृत्य ) अज्ज ! वंदामि । [ आर्य ! वन्दे ।]

 चारुदत्तः---भद्र ! स्वागतम्  ; कथय सत्यं प्राप्ता वसन्तसेना ?।

 चेटः--एशा शा अदा वशंतशेणा । [एषा सागता वसन्त- सेना ।]