पृष्ठम्:मृच्छकटिकम्.pdf/१४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३३
पञ्चमोऽङ्कः

 विदूषकः–कुदो अम्हाणं एत्तिअं भाअधेअ ? । णवणलिणकोमलं अंजलिं मत्थए कदुअ पडिच्छिआ । [ कुतोऽस्माकमेतावद्भागधे- यम् ? । नवनलिनकोमलमञ्जलिं मस्तके कृत्वा प्रतीष्टा ।]

 चारुदत्तः-तत्किं ब्रवीषि विनष्टमिति १ ।।

 विदुषकः---भो ! कधं ण विणट्टं ? जं अभुत्तपीदस्स चोरेहि अवहिदस्स अप्पमुल्लस्य सुवण्णभंडअस्स कारणोदो चतुस्समुदृसारभूदा रअणमाला हारिदा । [ भोः ! कथं न विनष्टम् ? यदभुक्तपीतस्य चौरैरप- हृत्स्याल्पमूल्यस्य सुवर्णभाण्डस्य कारणाश्चतुःसमुद्रसारभूता रत्नमाला हारिता ।]

 चारुदत्त---वयस्य ! मा मैवम्;

यं समालम्ब्य विश्वासं न्यासोऽस्मासु तया कृतः।
तस्यैतन्महतो मूल्यं प्रत्ययस्यैष दीयते ॥ ७

 विदूषकः--भो वअस्स ! एदं पि मे दुदिनं संदावकारणं जं सहीअणदिण्णसण्णाए पडंतोवारिदं मुहं कदुअ अहं उवहसिदो । ता अहं बम्हणो भविअ दाणिं भवंतं 'सीसेण पडिअ विण्णवेमि---णिव- तीअदु अप्पा इमादो बहुपञ्चवाआदो गणिआपसंगादो' । गणिआ णाम पादुअंतरप्पविट्ठा विअ लेट्टुआ दुक्खेण उण णिराकरीअदि । अवि अ, भो वअस्स ! गणिआ हृत्थी काअत्थओ मिक्खु चाटो रासहो अ जहिं एदे णिवसंति तहिं दुट्टा वि ण जाअंति। [ भो वयस्य ! एतदपि मे द्वितीयं संतापकारणं यसखीजनदत्तसंज्ञया पटान्तापवारितं मुखं कृत्वाऽह-


नुसारः कृतोऽस्या रत्नावल्या भाव (१) इत्यादिकः । मल्लको भाजनविशेषः । तन्मा तावत् । यद्भोजनाद्यर्थमपि न तथा भक्तिोऽहम् ॥ यदभुक्तपीतस्य चौरै- रेवापहृतस्याल्पमूल्यस्य ॥ यमिति ॥ ७ ॥ यत्सखीजनदत्तसंज्ञया पटान्तापवा-

टिप्प०--..-1 ब्राह्मणो महत्कार्यं विना न कमपि साष्टाङ्गं प्रणमतीत्याशयेनोक्तिरियम् ।