पृष्ठम्:मृच्छकटिकम्.pdf/१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
मृच्छकटिके

वाहमेव बुभुक्षात ओदनमयं जीवलोकं पश्यामि । नास्ति किल प्रातराशोऽस्माकं गृहे । प्राणाधिकं बाधते मां बुभुक्षा । इह सर्वं नवमिव संविधानकं वर्तते । एका वर्णकं पिनष्टि, अपरा सुमनसो ग्रथ्नाति । किंन्विदम् । भवतु, कुटुम्बिनीं शब्दाप्य परमार्थं ज्ञास्यामि । अर्थे! इतस्तावत् ।]

 नटी--( प्रविश्य ।) अज्ज! इअं म्हि [आर्य ! इयमस्मि । ]

 सूत्रधारः--अज्जे! साअदं दे । [ आर्ये ! स्वागतं ते ।]

 नटी-आणवेदु अज्जो को णिओओ अणुचिट्ठीअदु त्ति । [ आज्ञापयत्वार्यः को नियोगोऽनुष्ठीयतामिति । ]

 सुत्रधारः--अज्जे ! ( ‘चिरसंगीदोवासणेण’' इत्यादि पठित्वा ।) अत्थि किं पि अम्हाणं गेहे असिदश्वं ण वेत्ति । [ आर्ये  ! अस्ति किमप्य- स्माकं गेहेऽशितव्यं न वेति ।]

 नटी-- अज्जे! सव्वं अत्थि । [ आर्य ! सर्वमस्ति । ]

 सुत्रधारः- किं किं अत्थि ? [ किं किमस्ति ? ।]

 नटी- तं जधा--- गुडोदणं धिअं दहीं तंडुलाइं, अज्जेण अत्तब्वं रसाअणं सव्वं अत्थि त्ति । एवं ते देवा आसासेंतु [तद्यथा---गुडौदनं धृतं दधि तण्डुलाः, आर्येणात्तव्यं रसायनं सर्वमस्तीति । एवं तव देवा आशासन्ताम् ।]

 सूत्रधारः-- किं अम्हाणं गेहे सव्वं अस्थि? आदु परिहससि ?। [किमस्माकं गेहे सर्वमस्ति ? अथवा परिहससि ? ।]


में माम् । बुभुक्षा बाधते । इह सर्वं नवं संविधानकं वर्तते । एका वर्णकं कस्तूर्यादिकं समालम्भनं पिनष्टि । अपरा सुमनसः पुष्पाणि ग्रथ्नाति । इत्यनेनापि कोष्ठकस्यैव सूचनम् ॥ असिदव्वं अन्नरूपं द्रव्यम् । घिअं घृतम् । अत्तव्यं रसाअणमिति प्राये- पात्तव्यं रसायनमस्तीत्येवं तव देवा आशासन्तामिति संदिग्धवाक्योपन्यासः॥