पृष्ठम्:मृच्छकटिकम्.pdf/१२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२०
मृच्छकटिके

निःश्वसितीव महानसं द्वारमुखैः । अधिकमुत्सुकायते मां साध्यमानबहुविधभक्ष्यभोजनगन्धः । अयमपरः पटच्चरमिव हतपशूदरपेशिं धावति रूपिदारकः । बहुविधाहारविकारमुपसाधयति सूपकारः । बध्यन्ते मोदकाः । पच्यन्तेऽपूपकाः । अपीदानीमिह वर्धितं भुङ्क्ष्व इति पादोदकं लप्स्ये । इह गन्धर्वाप्सरोगणैरिव विविधालंकारशोभितैर्गणिकाजनैर्बन्धुलैश्च यत्सत्यं स्वर्गायत इदं गेहम् । भोः, के यूयं बन्धुला नाम ?।]

 बन्धुलाः--वयं खलु।

परगृहललिताः परान्नपुष्टाः परपुरुषैर्जनिताः पराङ्गनासु ।
परधननिरता गुणेष्ववाच्या गजकलभा इव बन्धुला ललामः ॥ २८ ॥

 विदूषकः---आदिसदु भोदी । [ आदिशतु भवती । ]

 चेटी-एदु एदु अज्जो । इमं छट्ठं पओट्ठं पविसदु अज्जो । [ एत्वेत्वार्यः । इमं षष्ठं प्रकोष्ठं प्रविशत्वार्यः । ]

 विदुषकः---( प्रविश्यावलोक्य च ) ही ही भो, इदो वि छट्ठे पओट्ठे अमुं दाव सुवण्णरअणाणं कम्मतोरणाइं णीलरअणविणिक्खित्ताइं इंदाउहट्ठाणं विअ दरिसअंति । वेदुरिअमोत्तिअपवालअपुप्फराअइंदणीलकक्केतरअपद्मराअमरगअपहुदिआइं रअणविसेसाइं अण्णोण्णं विचारेंति सिप्पिणो । बज्झंति जादरूवेहिं माणिक्काइं । धडिज्जंति सुवण्णालंकारा । रत्तसुतेण गत्थीअंति मोत्तिआभरणाइं । घसीअंति धीरं


यस्सत्यं स्वर्गायत इदं गृहम् ॥ परिगृहेति। गुणेष्ववाच्याः । अनभिधानीयगुणा इत्यर्थः । 'ऋणेषु' इति पाठे ऋणेष्ववाच्या ऋणमेवावसीय सर्वैरमिमुह्यामह इत्यर्थः । ललामो विलसामः । 'लले विलासे' भौवादिकः । अनुप्रासानुरोधेनानयोरैक्यम् । ‘ललामाः' इति पाठे श्रेष्ठा इत्यर्थः ॥ २८ ॥ इहापि षष्ठे प्रकोष्ठे, अयं तावत्सुवर्णरत्नानां कर्मतोरणानि नीले रत्ने वस्तुविशेषे निक्षिप्तानि प्रसारितानीन्द्रायुधस्थानकमिव दर्शयन्ति । नीलरत्नेष्वा (?) रोपितानीन्द्रायुधमिव दृश्यन्त इत्याशयः । वैडूर्यमौक्तिकप्रवालकपुष्परागनीलककर्केतरपद्मरागमरकतप्रभृतीन्रत्नविशेषानन्योन्यं विचारयन्ति शिल्पिनः । प्रवालककर्केतरौ मणिविशेषौ ।