पृष्ठम्:मृच्छकटिकम्.pdf/१२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११९
चतुर्थोऽङ्कः

इमा अपराः कुसुमरसमत्ता इव मधुकर्योऽतिमधुरं प्रगीता गणिकादारिका नर्त्यन्ते, नाट्यं पाठ्यन्ते सशृङ्गारम् । अल्पवल्गिता गवाक्षेषु वातं गृह्णन्ति सलिलगर्गर्यः । आदिशतु भवती । ]

 चेटी- एदु एदु अज्जो । इमं पंचमं पओट्ठं पविसदु अज्जो । [ एत्वेत्वार्यः । इमं पञ्चमं प्रकोष्ठं प्रविशत्वार्यः ।]

 विदूषकः--( प्रविश्य, दृष्ट्वा च ) ही ही भो, इदो वि पंचमे पओट्ठे अअं दलिद्दजणलोहुप्पादणअरो आहरइ उवचिदो हिंगुतेल्लगंधो । विविहसुरहिधूमुग्गारेहिं णिच्चं संताविज्जमाणं णीससदि विअ महाणसं दुवारमुहेहिं । अधिअं उसुसावेदि मं साहिज्जमाणबहुविहभक्खभोअणगंधो । अअं अवरो पडच्चरं विअ पोट्टिं धोअदि रूपिदारओ । बहुविहाहारविआरं उवसाहेदि सूवआरो । बज्झंति मोदआ, पच्चंति अपूवआ । ( आत्मगतम् ) अवि दाणिं इह वड्ढिअं भुंजसु त्ति पादोदअं लहिस्सं । ( अन्यतोऽवलोक्य च ) इदो गंधव्वच्छरगणेहिं विअ विविहालंकारसोहिदेहिं गणिआजणेहिं बंधुलेहिं अ जं सच्चं सग्गीअदि एदं गेहं । भो ! के तुम्हे बंधुला णाम ?। [ आश्चर्यं भोः, इहापि पञ्चमे प्रकोष्ठेऽयं दारिद्रजनलोभोत्पादनकर आहरत्युपचितो हिङ्गुतैलगन्धः । विविधसुरभिधूमोद्गारैर्नित्यं संताप्यमानं


द्वारमुखैः । अधिकं रोमाञ्चयति मां साध्यमानबहुविधभक्ष्यभोजनगन्धः । भोजनं । करणे ल्युटि व्यञ्जनादिवचनः । अयमपरः पटच्चरमिव जीर्णवस्त्रमिव । छेद्यपट्टमनेकाधारशोणिताभ्यामुपहतत्वात् । रूपिदारओ । 'रूप'शब्दः पशुवचनस्तद्योगाद्रूपी खट्टिकस्तस्य दारकः पुत्रः । यद्वा,-रूपी रूपसंघस्तस्य दारश्छेदकः खट्टिक एव । यत्र मांसं छिद्यते तं पदं धावति प्रक्षालयति । बहुविधाहारविकारमुपसाधयति सुपकारः । बध्यन्ते मोदकाः । पच्यन्तेऽपूपकाः । अपीदानीमहं भोक्तुं पादोदकं लप्स्ये । 'वर्धितम्' इति पाठे 'व्यञ्जनादिसामग्र्योपचितं वर्धितकम्' इति पूर्वटीका । इतश्च गन्धर्वाप्सरोगणैरिव विविधालंकारशोभितैर्गणिकाजनैर्बन्धुलैश्च