पृष्ठम्:मृच्छकटिकम्.pdf/१२१

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
११३
चतुर्थोऽङ्कः

 शर्विलकः–साधु प्रिये ! साधु; अस्मच्चित्तसदृशमभिहितम् । ( चेटमुद्दिश्य ) भद्र ! जानीषे रेभिलस्य सार्थवाहस्यो[१]दवसितम् ? ।

 चेटः--अध इं । [ अथ किम् । ]

 शर्विलकः–तत्र प्रापय प्रियाम् ।

 चेटः–जं अज्जो आणवेदि। [यदार्य आज्ञापयति ।]

 मदनिका-जधा अज्जउत्तो भणादि, अप्पमत्तेण दाव अज्जउत्तेण होदव्वं । [ यथार्यपुत्रो भणति, अप्रमत्तेने तावदार्यपुत्रेण भवितव्यम्।]

( इति निष्क्रान्तः)

 शर्विलकः--अहमिदानीं

ज्ञातीन्विटान् स्वभुजविक्रमलब्धवर्णान्
राजापमानकुपितांश्च नरेन्द्रभृत्यान् ।
उत्तेजयामि सुहृदः परिमोक्षणाय
[२]यौगन्धरायण इवोदयनस्य राज्ञः ॥ २६ ॥

अपि च,-

प्रियसुहृदमकारणे गृहीतं
रिपुभिरसाधुभिराहितात्मशङ्कैः ।
सरभसमभिपत्य मोचयामि
स्थितमिव राहुमुखे शशाङ्कबिम्बम् ॥ २७ ॥

( इति निष्क्रान्तः)

( प्रविश्य )

 चेटः–अज्जए ! दिट्ठिआ वड्ढसि । अज्जजारुदत्तस्स सआसादो बम्हणो आअदो । [आर्ये ! दिष्ट्या वर्धसे । आर्यचारुदत्तस्य सकाशाद्ब्राह्मण आगतः ।]


गृहम् ॥ ज्ञातीनिति ॥ २६ ॥ प्रियेति ॥ २७ ॥ बन्धुलेन ।


  1. चारुदत्तगृहमिति भावः ।
  2. कथानकमिदं बृहत्कथादौ वर्णितं वरीवर्ति । मृ॰ ८