पृष्ठम्:मृच्छकटिकम्.pdf/१०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९६
मृच्छकटिके

 विदूषकः--मा दाव अक्खाइदस्स अभुत्तस्स अप्पमुल्लस्स चोरेहिं अवहिदस्स कारणादो चतुःसमुद्दसारभूदा रअणावली दीअदि । [मा तावदखादितस्याभुक्तस्याल्पमूल्यस्य चौरैरपहृतस्य कारणाश्चतुःसमुद्रसारभूता रत्नावली दीयते । ।

 चारुदत्तः-वयस्य ! मा मैवम्,-

यं समालम्ब्य विश्वासं न्यासोऽस्मासु तया कृतः ।
तस्यैतन्महतो मूल्यं प्रत्ययस्यैव दीयते ॥ २९ ॥

तद्वयस्य ! अस्मच्छरीरस्पृष्टिकया शापितोऽसि, नैनामग्राहयित्वात्रागन्तव्यम् । वर्धमानक ! ।

एताभिरिष्टिकाभिः संधिः क्रियतां सुसंहतः शीघ्रम् ।
परिवादबहलदोषान्न यस्य रक्षां परिहरामि ॥ ३० ॥

वयस्य मैत्रेय ! भवताप्यकृपणशौण्डीर्यमभिधातव्यम् ।।

 विदूषकः--भो, दलिदो किं अकिवणं मंतेदि ? । [ भोः, दरिद्रः किमकृपणं मन्त्रयति ? ।]

 चारुदत्तः-अदरिद्रोऽस्मि सखे ! । ( यस्य मम ‘विभवानुगता भार्या-' [३।२८] इत्यादि पुनः पठति ) तद्गच्छतु भवान् ; अहमपि कृतशौचः संध्यामुपासे ।

( इति निष्क्रान्ताः सर्वे )

इति संधिच्छेदो नाम तृतीयोऽङ्कः ।


चतुःसमुद्देति । चतु:समुदाणां रत्नाकराणां सारभूता ।। यमिति । समालम्ब्ये- त्याद्यपूर्वेऽपि सोहणसवनविभवेति ( ? ) कुलीनत्वादेरित्यर्थः (?) ॥ २९ ॥ एताभिरिति ॥ ३० ॥ सत्त्वमाशयं महत्त्वम् (?) ॥

इति संधिच्छेदो नाम तृतीयोऽङ्कः ।

दिप्प०-- तस्य महतः प्रत्ययस्य विश्वासस्य मूल्यं रत्नावलीरूपं दीयते इति

निष्कर्षः। 2 संस्पर्शेनेत्यर्थः । 3 शपथं प्रापितः । 4 कृपणमेव मन्त्रयतीत्यर्थः । इतीदं परिहसतीति भावः। 5 प्रातःसंध्याम् ।