पृष्ठम्:मृच्छकटिकम्.pdf/१०३

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
९५
तृतीयोऽङ्कः

 विदूषकः-(गृहीत्वा) सोत्थि, गमिस्सं; पिअवअस्सस्स णिवे- देमि। [स्वस्ति, गमिष्यामि; प्रियवयस्यस्य निवेदयामि ।]

 वधूः--अजमित्तेअ ! मा खु मं लज्जावेहि। [ आर्यमैत्रेय ! मा खलु मां लज्जितां कुरु।)

( इति निक्रान्ता )

 विदूषकः---( सविस्मयम् ) अहो, से महाणुभावदा । [ अहो, अस्या महानुभावता ।]

 चारुदत्तः--अये, चिरयति मैत्रेयः । मा नाम वैक्लव्यादकार्यं कुर्यात् । मैत्रेय, मैत्रेय ।।

 विदूषकः----( उपसृत्य ) एसो म्हि । गेण्ह एदं । (रत्नावलीं दर्शयति ) [ एषोऽस्मि, गृहाणैताम् ।। ]

 चारुदत्तः- किमेतत् ? ।

 विदूषकः--भो, जं दे सरिसदारसंगहस्स फलं । [ भोः, यत्ते सदृशदारसंग्रहस्य फलम् ।

 चारुदत्तः----कथं ब्राह्मणी मामनुकम्पते ? । कष्टम् , इदानीमस्मि दरिद्रः ।

आत्मभाग्यक्षतद्रव्यः स्त्रीद्रव्येणानुकम्पितः ।
अर्थतः पुरुषो नारी या नारी साऽर्थतः पुमान् ॥ २७ ॥

अथवा, नाहं दरिद्रः; यस्य मम

विभवानुगता भार्या सुखदुःखसुहृद्भवान् ।
सत्यं च न परिभ्रष्टं यद्दरिद्रेषु दुर्लभम् ॥ २८॥

मैत्रेय ! गच्छ रत्नावलीमादाय वसन्तसेनायाः सकाशम् । वक्तव्या च सा मद्वचनात्----‘यत्खल्वस्माभिः सुवर्णभाण्डमात्मीयमिति कृत्वा विश्रम्भाद्द्यूते हारितम् ; तस्य कृते गृह्यतामियं रत्नावली' इति ।


दिगवलम्बितमुख इत्यर्थः ॥ रअणसट्ठिं रत्नषष्ठिकाभिधं व्रतम् । अरण्यषष्टिका नाम ग्रीष्मव्रतम् इत्येके ॥ आत्मेति ॥ २७॥ विभवेति ॥ २८ ॥

टिप्प-1 चारुदत्तपत्न्या इत्यर्थः ।