पृष्ठम्:मृच्छकटिकम्.pdf/१००

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
९२
मृच्छकटिके

 चारुदत्तः–कदाचिदेवमपि स्यात् । ( सर्वतो निरूप्य, सहर्षम् ) वयस्य । दिष्ट्या ते प्रियं निवेदयामि ।।

 विदूषकः--किं ण अवहिदं । [ किं नापहृतम् ?।]

 चारुदत्तः-हृतम् ।।

 विदूषकः–तधा वि किं पिअं ? । [ तथापि कि प्रियम् ।]

 चारुदत्तः–यदसौ कृतार्थों गतः ।

 विदूषकः–णासो खु सो । [ न्यासः खलु सः ।]

 चारुदत्तः--कथं न्यासः ? । ( मोहमुपगतः )

 विदषकः---समस्ससदु भवं । जई णासो चोरेण अवहिदो तुमं किं मोहं उवगदो? ।[ समाश्वसितु भवान् । यदि न्यासचौरेणापहृतस्त्वं किं मोहमुपगतः ? ?]

 चारुदत्तः---( समाश्वस्य ) वयस्य !

कः श्रद्धास्यति [१]भूतार्थं सर्वो मां तुलयिष्यति ।
शङ्कनीया हि लोकेऽस्मिन्निष्प्रतापा दरिद्रता ॥ २४ ॥

भोः ! कष्टम् ,---


यदि तावत्कृ[२]तान्तेन प्रणयोऽर्थेषु मे कृतः ।
किमिदानीं नृशंसेन चारित्रमपि दूषितम् ? ॥ २५ ॥

 विदूषकः--अहं खु अवलविस्सं-‘केण दिग्णं, केण गहिदं, को वा सक्खि ' त्ति । [ अहं खल्वपलपिष्यामि–'केन दत्तम् , केन गृहीतम्, को वो साक्षी' इति । ]


यावत् । अवहि (ह) दं अपहृतम् ॥ दिष्ट्या हर्षे ॥ ण अवहिदं नापहृतम् । के इति । निष्प्रतापा निष्पौरुषा ॥ २४॥ यदीति । प्रणयोsर्थित्वम् ॥ २५ ॥


टिप्प०-1 । 2 ।


  1. चौरेण हेमभाण्डं हृतमित्येवंरूपं भूतार्थमिति भावः
  2. कृतान्तेन दैवेनेत्यर्थः‘कृतान्तो यमसिद्धान्तदेवकुशलकर्मसु' इत्यमरः