पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयोऽङ्कः । (विदूषकं विलोक्य ) ततः शृणुमो वयं विवक्षितमार्यस्य । विदूषकः-(गणदासं विलोक्य ) कैोसेिई दाव पुच्छ । पच्छा जो मए कम्मभेदो दिट्टो तं भणिस्सं । गणदासः-भूगवति, यथादृष्टमभिधीयताम् । गुणो वा दोषो वा । परिव्राजिका-यथादृष्टं सर्वमनवद्यम् । कुतः । अद्वैरन्तर्निहितवचनैः सूचितः सम्यगर्थ पादन्यासो लयमनुगतस्तन्मयत्वं रसेषु । शाखायोनिर्भूदुरभिनयस्तद्विकल्पानुवृत्तौ भावो भावं नुदतेि वेिषयाद्रागबन्धः स एव ।॥ ८ ॥ गणदासः-देवः कथं वा मन्यते । राजा-वयं खपक्षे शिलिभिमानाः संवृत्ताः । गुणदासः–अद्य नर्तयितास्मि । १. कौशिकीं तावत्पृच्छ । पश्चाद्यो मया कर्मभेदो दृष्टस्तं भणिष्यामि । तिमत्वादुपन्यासो नाम संध्यङ्गमुक्तं भवति । कौशिकीं तावत्पृच्छ । पश्चाधो मया कर्मभेदो दृष्टस्तं भणिष्यामि । अद्वैरित्यादि । अन्तर्निहितवचनैरन्तर्नि हितान्यभ्यन्तरस्थापितानि वचनानि पदानि यैस्तैरर्हिस्तादिभिः । अत्राभ्यासपा टधादङ्गानां खत एवान्तर्निहितचवनलमुत्प्रेक्षेितमिति भन्तव्यम् । अर्थो गीतार्थः सम्यक् साधु । सूचितः प्रकाशितः । पादन्यासः पादस्य न्यासो विन्यासः । लयम जुगतोऽनुसृतः । लयो नाम तालमानम् । ‘तालवतीं तु यः कालः स काललयना लय.' इत्युक्तखात् । अत्र पादन्यासस्य खतो लयानुसरणमभ्यासपाटवादिद्वि मन्तव्यम् । रसेषु, रसविषयेषु तन्मयत्वं तादात्म्यम् । रसात्मता भवतीत्यर्थः । अत्र रसशब्देनोपवारास्परितोषातिशयवत्वादिभावाः कथ्यन्ते । प्रकृतरसस्यैकखा द्रसेष्विति बहुवचनानुपपतिप्रसङ्गात् । अभिनयः प्रयोगः । यथोक्तम्—‘प्रयोगो घतु नाट्यादेर्भवेदभिनयो हि सः’ इति । शाखायोनिः शाखा योनिः प्रभवो यस्य स तथोक्तस्तथाविधः सन् । मृदुः सुकुमारः । शाखा नाम नृत्तहस्तानां सानप्रचारः । यथोक्तम्-‘शाखा तु नृत्तहस्तानां या मात्रोचितनर्तन' इति । तद्विकल्पानु वृत्तै तस्याभिनयस्य विकल्पो मेदस्तस्यानुवृतिरनुगतिः प्राप्तिः । तस्यां सस्याँ भावः अभिनीथमानो निर्वेदादिधियादाश्रयात् । प्रकृतात्स्थान इत्यर्थः । भावं