पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/१०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


(प्रविश्य ) गाणदासः–काम खलु सस्यापि कुलविद्या बहुमता । न पुनरस्माकं नाट्वं प्रति मिथ्यागौरवम् । तथा हि । देवानामिद्मामनन्ति मुन्धः शान्तै ऋतुं चाक्षुषं रुद्रेणेदमुमकृतव्यतिकरे खाङ्गे विभक्तं द्विधा । त्रैगुण्योद्भवमत्र लोकचरितं नानारसं दृश्यते नाट्वं भिन्नरुचेर्जनस्य बहुधाप्येकं समाराधकम् ॥ ४ ॥ संगीतशालातो निर्गच्छति । यावदस्मा आत्मानं दर्शयामि । देवानामेित्यादि । सुचयो भरतमतङ्गाक्ष्य इदं नाट्यं देवानामिन्द्रादीनां ऋतुं यज्ञमामनन्ति । कीदृशम् । शान्तं सौम्यम् । पशुविशसनादिरहितमित्यर्थः । पुनः कीदृशम् । चाक्षुषं चक्षुरनु भाव्यम् । अस्य नाट्यस्य ऋतुलवनिरूपणं चतुर्वेदसारनाट्यवेदविहितकर्पलादिति मन्तव्यम्। तथा व कुमारसंभवे-‘कर्म यज्ञः फलं खर्ग:’ इति। अन्न चतुर्वेदसारत्वं भारतीये प्रतिपादितम्-‘सर्वशास्त्रार्थसंपन्न सशेिल्धप्रदर्शनम् । नाट्यसंज्ञमिमं वेदं सेतिहासं करोम्यहम् ॥ एवं संकल्प्य भगवान्सर्वान्वेदाननुस्मरन् । नाट्यवेदं तत चके चतुर्वेदाङ्गसंभवम् । जग्राह पाठ्यमृग्वेदात्सामभ्यो गीतमेव च । यजुर्वेदादभि नयान्रसानाथर्वणादपि।वेदोपवेदसंबद्वो नाट्यवेदो महात्मना । एवं भगवता सृष्टी ब्रह्मणा ललितात्मना । उत्पाद्य झाध्वेदं तु ब्रह्मोवाच सुरेश्वरम् ।।' इति । प्रकारा न्तरेणाप्यस्य क्रतुत्वं प्रतिपादितम्-‘प्रयोग यश्च कुर्वीत प्रेक्षते चावधात्तवान् । या गतिर्वेदविदुषां या गतिर्यज्ञयाजिनाम्या गतिर्दानशीलानां तां गतिं प्रामुधान्नरः।' व्यतिकरः संबन्धो यस्य स तथोक्तस्तस्मिन्स्वाङ्गे. आत्मदेब्रे द्विधा द्विप्रकारेण लास्य ताण्ड्वरूपेण विभक्तं पृथकृतम् । तथा चोक्तं सँगीतविद्याविनोदे-'उद्दण्डताण्ड मुदञ्चितळास्यलीलां कर्तु स्वयं युगपदेव समुत्सुकात्मा । यः कामिनीकलितकम्रतरा धैकायः सोऽयं विभाति विभुरादिनटः सुराणाम् ॥' अत्र नाटये त्रैगुण्योद्भवम् । त्रयो गुणः सत्वरजस्तमांस्येव त्रैशुण्यम् । चतुर्वर्णादिखात्स्वार्थे ष्यञ् । तस्मादुद्भवमुङ्कर्त लोकचरितं लोकानां लोकस्थानांरामाद्यनुक्राणां चरितं सुखदुःखमिश्रात्मकं चरितं नानारसं जाना बहुविधा रसाः प्रियतमोपभोग्या मिस्तत्तथोत्तं दृश्यते ज्ञायते । साभाजिकैरनुभूयत इत्यर्थः। लोकेऽनुकार्यस्य चरितं सुखदुःखमिश्रात्मकमपि नाट्यं नटेतामिनीयमानं सत्सुखरूपेणैव प्रतीयत इति भावः। पुनः कीदृशम्। नाट्यं नटनप्र योगः । एकम्प्येकैकमपि भिन्नरुचेर्भिन्ना बहुविधा रुचयः श्रीतयो यस्य स तथोक्त