|
निषिद्धकाम्यकर्मभ्यः सम्यग् व्यावृत्तचेतसः । |
सुखाद्यापरोक्ष्यसाधनेन्द्रियत्वेन कल्प्यमन्तरिन्द्रियं विभुपरिमाणमस्पन्दं च मनः । अणुपरिमाणं त्वचलं च मन इति केचिदूचिरे । तदसङ्गतम् । 'मनो विभु स्पर्शानर्हद्रव्यत्वाद् अनारभ्यारम्भ (क) द्रव्यत्वाद् वा ज्ञानासमवायिकारणसंयोगाधारत्वाद् वा आत्मवद्' इत्यादिभिरनुमानैर्महत्त्वसिद्धेः । सिद्धे विभुत्वे चाकाशादिवदस्पन्दा (त्म)कत्वमपि न पृथक् साध्यम् । ननु धर्मिग्राहकप्रमाणबाधितान्यनुमानानि । तथाहिविभुनो मनसोऽनुपहितत्वे गगनादिवदिन्द्रियत्वायोगादुपाधिर्वक्तव्यः । तत्र श्रोत्रादीनामिव मनसः शरीरैकदेशोपधित्वं नोपपद्यते । तदवयवनिरोधे मनोनिरोधप्रसङ्गात् । नापि (स)कलशरीरोपाधित्वं, वेदनाविज्ञानसाधनस्यात्ममनः संयोगस्य सार्वत्रिकत्वेन पादादिगतायाः कण्टकादिवेधवेदनायाः सकलशरीरव्यापित्वप्रतीतिप्रसङ्गात् । अणुत्वाश्रयणे तु तत्तदेहावयवगतात्ममनःसंयोगविशेषवशादुपपद्यत एव वेदनायास्तत्तदधिकरणत्व- प्रतीतिरिति मनोग्राहकमेव प्रमाणमणुत्वमपि गृह्णातीति सिद्धो धर्मिग्राहकप्रमाणबाधः। अत्र वदामः । यत् तावदुक्तं मनसोऽनु-