सामग्री पर जाएँ

पृष्ठम्:मानमेयोदयः.djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८७
प्रमेयपरिच्छेदे द्रव्यनिर्णयः ।


मैवम् । गजादिगतस्यात्मनः पिपीलिकादिदेहानुप्रवेशाभावप्रसङ्गात् । तस्मात् पारिशेष्यसिद्धं विभुत्वम् | 'तेनेदं पूर्ण पुरुषेण सर्वम्' (वे. ३. ९) इत्यादिभिः श्रुतिभिश्च विभुत्वसिद्धिः । नित्यत्वं पुनः 'अविनाशी वा अरे अयमात्मा' (बृह. ४. ५. १४) इत्यादिश्रुतेरनवयवद्रव्यत्वाद् विभुत्वाच्च गगनादिवत् साधनीयम् । ननु कौ पुनः स्वर्गापवर्गी नाम | लौकिकेषु सुखदुःखेष्वेव स्वर्गनरकादिव्यपदेशः । मोक्षस्तु शशविषाणसदृक्ष इति देहात्मवादिनश्चार्वाकस्य मतम् । सत्तु देहव्यतिरिक्तात्मसद्भावप्रतिपादनेन निरस्तं वेदितव्यम् । सौगतास्तु नीलपीतादिविषयोपधानविलये सति निरुपधानस्य बोधस (न्धा ? न्ता ) नस्य स्वरूपेणावस्थानं मोक्षमाचक्षते । तदयुक्तम् । निर्विषयस्य स्वयमवस्थानानुपपत्तेः । निरन्तरमुपजायमानेषु विन (श्च ? श्य) त्सु च बोधसन्तानेषु कस्यापि मोक्षफलानुभवानुपपत्तेः, मुक्तेरपरपुरुषार्थत्वप्रसङ्गाच्च । एकविंशतिप्रभेददुः खोच्छेदो मोक्ष इति तार्किकाः कीर्तयन्ति । देहः, षडिन्द्रियाणि, षड् विषयाः, षड् बुद्धयः, सुखं, दुःखं चेत्येकविंशतिप्रभेदं च दुःखमाचक्षते । तत् सुखस्यापि विनाशेन मुक्तेरपरपुरुषार्थत्वप्रसङ्गादुपेक्षणीयम् । न च सुषुप्तेरिव मुक्तेरपि दुःखाभावमात्रेण समीहितत्वमिति वाच्यम् । दुःखाभावसमीहितस्याल्पविषयत्वाद्, अन्यथा विस्मृत्य सुप्तोत्थितस्य दुःखाभावेऽनुसन्धीयमानेऽपि कामिनीसम्भोगादिसुखलवलोपनिमित्तदुःखानुषङ्गाभावप्रसङ्गात् । तस्मात् स्वर्गादिसुखमुन्मुच्य मोक्षमात्राकाङ्क्षा न मोक्षस्य दुःखाभाव (प्रसङ्गामात्ररूपस्व ? मात्रस्वरू) पत्वे सम्बोभवीति । एतेन ( स खलु ?