द्यभेदादवैयर्थ्य भवति । एवमविज्ञानानानन्दव्यवच्छेदार्थ विज्ञानानन्दपदद्वयम् । अपिच, 'प्रकृष्टप्रकाशचन्द्र' इत्यत्र प्रकृष्टप्रकाशपदयोरन्योन्यं चन्द्रपदेन चाभिन्नार्थत्वमङ्गीकरणीयम् ।
अन्यथा चन्द्रप्रातिपदिकार्थस्य पृष्टत्वात् तदितरस्य कथनेन प्रश्रोत्तरयोः परस्परमसङ्गतिप्रसङ्गात् । तस्माद् विज्ञानानन्दपदयोः
परस्परं ब्रह्मपदेन चाभिन्नार्थत्वमवश्याश्रयणीयम् । अत एवाखण्डमेव वयं वाक्यार्थमङ्गीकुर्मः । प्रयोगश्च भवति 'विज्ञानादिपदमखण्डनिष्ठं लक्षणवाक्यत्वात् प्रकृष्टप्रकाशश्चन्द्र इतिवद्' इति । अतः सिद्धं विज्ञानानन्दपदयोरेेकार्थत्वमपर्यायत्वमवैयर्थ्य च । अत्र ब्रूमः ।
|
वाक्यार्थं हि गुरुः कार्यमखण्डं शङ्करोऽब्रवीत् । |
तत्र कार्यवाक्यार्थनिरासप्रकारं गुणनिर्णये वर्णयिष्यामः नाप्यखण्डं वाक्यार्थः । सर्वेषां पदानामेकस्मिन्नेवार्थे तात्पर्ये सत्येकेनैव पदेन तस्यार्थस्य प्रतिपादितत्वादितरपदाम्नानवैयर्थ्यस्य दुष्परिहरत्वात् । न च व्यवच्छेद्यभेदाद्वैयर्थ्यमिति वाच्यम् । एकार्थत्वे पर्याययोरिव व्यवच्छेद्यभेदानुपपत्तेः । न हि 'हस्तः कर' इत्यादिषु कश्चिदपि व्यवच्छेद्यभेदः । नापि 'प्रकृष्टप्रकाशचन्द्र' इति वाक्यमखण्डनिष्ठं, तस्य वाक्यस्य संज्ञासंज्ञिसम्बन्धप्रतिपादनमात्रपरत्वात् । नाप्येवं सति प्रश्नोत्तरयोरसङ्गतिप्रसङ्गः, प्रश्नस्यापि 'कस्यात्र चन्द्रसंज्ञे'ति संज्ञासंज्ञिसम्बन्धविषयत्वात् । दृश्यमानस्य चन्द्रस्वलक्षणमात्रस्य प्रश्नोऽप्यनुपपन्न एव । अतः संज्ञासंज्ञिसम्बन्धस्याज्ञातस्यैव प्रश्नावकाशः । तत्र</poem>