सामग्री पर जाएँ

पृष्ठम्:मानमेयोदयः.djvu/९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ श्रीः ॥

श्रीनारायणभट्टप्रणीतः

मानमेयोदयः ।


प्रमाणपरिच्छेदः ।

प्रत्यक्षपरीक्षा ।


आचार्यमताथोधौ बालानपि निनीषताम् ।
धीमतां कोऽपि गोपालपोतः पोत इवास्तु नः ॥ १॥
मानमेयविभागेन वस्तूनां द्विविधा स्थितिः ।
अतस्तदुभयं ब्रूमः श्रीमत्कौमारिलाध्वना ॥ २ ॥
प्रमाकरणमेवात्र प्रमाणं तर्कपक्षवत् ।
प्रमा चाज्ञाततत्त्वार्थज्ञानमित्येव भिद्यते ॥ ३ ॥

 अज्ञातपदेनात्र ज्ञातविषययोः स्मृत्यनुवादयोर्निरासः । तत्रानुवादानामप्रामाण्यं तार्किकादीनां नानुमतम् । वयं तु ब्रूमः । अनुवादो ह्यर्थपरिच्छेदे व्यवहारे वा न पूर्वज्ञानात् कञ्चिद् विशेषमाधत्ते । अतः फलविशेषाभावात् फलार्थ च प्रमाणानां स्वीकरणात् स्मृत्यादिवदनुवादोऽपि बहिष्कार्य एवेति । नन्वज्ञातावगमस्यैव प्रमात्वे घटोऽयं घटोऽयमिति धारावाहिकज्ञानेषु द्वितीयादीनामप्रमात्वं स्यात् । मैवम् । तत्राप्ययमयमित्युत्तरोत्तरेषां कालांशानामज्ञातानामवगमाद् उत्तरे क्षणे