पारिशेप्याद् द्रव्यान्तरकल्पनं तु पूर्वोक्तनयेन पारिशेप्यासिद्धिप्रभृतिभिर्निराकरणीयम् । तस्माद् व्योमादीनामप्रत्यक्षत्वसाधनपराणामनुमानानां तत्प्रतीत्यन्यथानुपपत्तित्रसूतार्थापन्तिबाधितविषयत्वात् सिद्धनप्रामाण्यम् । तत्राकाशो विभुरपि घटाद्युपाघिवशाद् घटाकाशादिव्यपदेशं लभते, कर्णशष्कुल्युपाधिवशेन श्रोत्रेन्द्रियव्यपदेशं च | कालस्यापि विभुत्वेऽप्युपाधिवशादौपाधिको
भेव्यवहारोऽस्ति । स यथा - पञ्चदश निमेषाः काष्ठा । ताभिस्त्रिंशता मुहूर्तः । ते त्रिंशदहोरात्रः | तैस्तावद्भिर्मासः । तैर्द्वादशभिः संवत्सरः । तैश्च क्रमेण युगादय इति । एवं दिशोऽपि
पूर्वापराद्यपाधिवशाद् भेदव्यवहारो द्रष्टव्यः ॥
आत्मा चैतन्याश्रयः । स च मानसप्रत्यक्षगम्यः । अत्र प्राभाकरास्तावदिमहं जानामीति सर्वार्थवित्तिषु व्यवहारदर्शनाद् आत्म स्वात्मनोरध्यप्रकाशमानत्वे तदनुपपत्तेरात्मस्वात्मनोः कर्तृतथा वित्तितया च प्रतीयमानत्वमभ्युपगच्छन्ति । तत्राहंप्त्ययगम्यत्वेनात्मनः प्रत्यक्षत्वं, ज्ञानस्य तु स्वयंप्रकाशत्वेनेति च व्यवस्थां प्रतिपेदिरे । तत्र ज्ञानस्य स्वयंप्रकाशत्वमुपरिटान्निराकरिष्यामः । आत्मा तु नाहंप्रत्ययगम्यः, सर्वत्रार्थवित्तिष्वपि जानामीति व्यवहारादर्शनात् । यत् पुनरत्र शालिकनाथेन कथितम् 'अवश्यं च ज्ञातुर (व) भासो ज्ञेयानु (भा ? भ) वेष्वनुवर्तत इत्यास्थेयम्, अन्यथा स्वपरवेद्ययोरनतिशय' इति, तदप्ययुक्तम् । ज्ञानस्य स्वात्मसमवेतत्वमात्रेणैवातिशयसिद्धेः ।
स्वात्मपदं ज्ञानार्थकम् ।