सामग्री पर जाएँ

पृष्ठम्:मानमेयोदयः.djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७३
प्रमेयपरिच्छेदे द्रव्यनिर्णयः ।


त्वप्रतिपादकानां मन्वादिवाक्यानामप्यपौरुषेयत्वापत्तिः । तेषामपि वेदवाक्यरूपमानान्तरोपलक्ष्यमूलत्वात् । मातापितृसम्बन्धोत्पन्नपाञ्चभौतिकशरीरत्वादिगुणविशिष्टानामेव पुरुषाणां वाक्यस्वातन्त्र्यदर्शनादतादृशस्य स्वातन्त्र्यकल्पनं विशेषविरुद्धं च । 'विप्रतिपन्नः कालो न वेदशून्यः कालत्वात् सम्प्रतिपद्मकालवत्, विमतं वेदाध्ययनं परतन्त्राध्येतुकं वेदाध्ययनत्वात् सम्प्रतिप न्नाध्ययनवद्, आत्मत्वं वेदकर्तृव्यक्तिसमवेतं न भवति जातित्वाद् गोववदिति प्रतिहेतुविरुद्धं च वाक्यत्वम् । नन्वेवमेव भारतादीनामप्य पौरुषेयत्वं साधनीयमिति चेद्, न तेषां दृढतरकर्तृस्मरणबाधितविषयत्वाद् नानुपलब्धे न निर्णीतेऽर्थे न्यायः प्रवर्तत इति भवद्भिरभ्युपगतत्वाच्च । ननु श्रूयत एव वेदवाक्येषु वेदानां पौरुषेयत्वं 'वक्रेभ्यो वेदास्तस्य निःसृताः, ऋग्वेद एवाग्नेरजायत, यजुर्वेदो वायो:, सामवेद आदित्यात्' 'तस्माद् यज्ञात् सर्वहुतः ऋचः सामानि जज्ञिरे इत्यादिषु । अतः कथमपौरुषेयत्वमिति चेद्, मैयम्। एतानि हि वाक्यानि परस्परविरुद्धानि प्रमाणान्तरबाधितविषयाणि च । आदित्यो यूप' इत्यादिवाक्य वदेतेषामर्थवादत्वपरिकल्पनात् । काठकादिसमाख्यापि तस्य (स्या) देव | कठादेः प्रकृष्टवचनतया तच्छि ष्याणां कठानामाम्नायः काठकमित्येतस्मिन्नर्थे वुञ्प्रत्ययस्मरणान्न कठादीनां वेदवाक्यविषयं प्रति स्वातन्त्र्यमवगमयति । अतो न वेदवाक्यानां पुरुषानुप्रवेशाभावादप्रामाण्यगन्धोऽपि । पुरुषकृता हि शब्दे दोषाः । ननु पुरुषगुणनिबन्धना एव शब्दे गुणाः , यथा रामायणादिषु । तस्मात् पुरुषाभावे पुरुषगुणस्य दूरापा-