सामग्री पर जाएँ

पृष्ठम्:मानमेयोदयः.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७०
मानमेयोदये


म्भकसिद्धिः । न च महत्त्वमसिद्धं, दृश्यद्रव्यत्वहेतुना घटादिवन्महत्त्वसमर्थनादित्यन्ते तदतिरिक्तप्रमाणसिद्धिरिति । मैवम् । आपेक्षिके हि पदार्थानां महत्त्वाल्पत्वे । यद्येतस्मादपि न्यूनपरिमाणः कश्चिदुपलभ्येत, तर्हि ( त ? म )हानेवायम् । स च नोपलभ्यते । अनुमानं पुनर्योग्यानुपलम्भबाधितविषयत्वादप्रमाणम् । एवमपि दृश्यस्य घटादिवन्महत्त्वं साधयतां तार्किकाणामवयव्यारम्भकस्य मृत्पिण्डादेरवयवित्वमहत्त्वयोर्दर्शनेन तदारम्भकाणामप्येवमणुतरतमभावस्य न क्वचिदपि विश्रमः । तथाच सति मशकमत्तमातङ्गयोरप्यनन्तावयवपरिप्रापितत्वाविशेषेण, तुल्यपरिमाणत्वादिबहुविधदृष्टविरोधः प्रसज्येत । तस्माल्लोकसिद्धानेव वयं परमाणूनाद्रियामहे । नापि योगिप्रत्यक्षात् तत्सिद्धिः । ‘योगिनामपि प्रत्यक्षमिन्द्रियसन्निकर्षजं प्रत्यक्षत्वाद् अस्मदादिप्रत्यक्षवत्, योगीन्द्रियमतीन्द्रियविषयकं न भवति इन्द्रियत्वाद् अस्मदादीन्द्रियवदिति योगिप्रत्यक्षस्याप्यस्मदादिप्रत्यक्षानतिरेकसिद्धेस्तदतिरिक्तपरमाणुसिद्धावपि नास्मन्मते किञ्चन हीयत इत्यास्तामेतत् । नापीश्वरारब्धं जगद्, वेदव्यतिरेकेणेश्वरसद्भावे प्रमाणाभावात् । अस्तु वेदादेव तत्सिद्धिरिति चेद्, न । वेदानामपीश्वरकर्तृकत्वं साधयतां तार्किकाणां वेदप्रामाण्यादीश्वरसिद्धिः, ईश्वरप्रामाण्याच्च वेदसिद्धिरितीतरेतराश्रयचक्रकयोः प्रसङ्गात् । ननु 'क्षित्यादिकं सकर्तृकं कार्यत्वाद् घटवदित्यनुमानं तत्र प्रमाणमिति चेद्, न । विकल्पासहत्वात् । तथाहिईश्वरः शरीरी वा न वा । नाद्यः, उपलम्भयोग्यत्वे सति कैश्चिदप्यनुपलम्भाद् भवद्भिरप्यनभ्युपगमाच्च । नाप्यशरीरी | अश-