कर्तव्यः स्यात् । तस्मात्त्यैवोहसिद्धिरित्यास्तामेतदिति ।
इति मानमेयोध्ये
प्र.म. जपरिच्छेदेऽर्थापत्तिपरीक्षा ।
अथाभावपरीक्षा ।
|
अथोपलम्भयोग्यत्वे सत्यव्यनुपलम्भनम् । |
अत्र ह्यनुपलम्भः करणम् । तस्य च ज्ञानाभावरूपत्वा- दभावः प्रमाणमित्युच्यते । तत्र च -
|
विषयं तदधीनांश्च सन्निकर्षादिकान् विना | |
ततश्च विषयभूत घटं तदधीनांश्चेन्द्रिय सन्निकर्षादीन् विना यच्चक्षुरुन्मीलनालोकसम्पातमनःप्रणिधानादिकं घटोपलम्भकारणं, तत् सर्वमिदानी[१]मेव सञ्जातमित्यवगमे सति तत्सहकृतः सन् घटानुपलम्भो घटाभावं बोधयतीत्येवं सर्वत्र द्रष्टव्यम् ।
योग्यत्वाव[२]गमार्थं हि सूक्ष्मार्थाभाववेदने ।
सूक्ष्मबोधकनेत्रांशुसम्पातार्थं प्रयस्यते ॥ १५९३ ॥