सामग्री पर जाएँ

पृष्ठम्:मानमेयोदयः.djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५३
प्रमाणपरिच्छेदे अर्थापत्तिपरीक्षा ।


जातः । जीवनप्रमाणेन हि जीवनमात्रं देशसामान्यसम्बन्धो वा विषयीकृतः, न तु तदुभयमपि गृहाभावप्रमाणेन स्पृष्टमाघ्रातं वा । तस्माज्जीवनगृहाभावप्रमाणयोर्विरोधस्यैवाभावात् कथं तेन करणभूतेनार्थापत्तिरित्युच्यते । अपिच,

ईदृशस्य विरोधस्य प्रसिद्धानुमितिष्वपि ।
सम्भवादनुमाजालमर्थापत्तिर्ग्रसिष्यते ॥ १३४३ ॥

 यत्र धूमस्तत्राभिरिति व्याप्तिग्राहकप्रमाणेन हि पर्वतेऽप्यग्निः प्राप्तः । धूमो वा दृश्यमानः पर्वते स्वकारणमग्निमाक्षिपतीति व्याप्तिग्राहकप्रमाणेन धूमदर्शनेन वा पर्वते क्वचिदग्निरस्तीत्यवगतम् | तस्य चोर्ध्वदेशेऽनुपलम्भेन विरोधादधोदेशे वह्निः कल्प्यत इत्यर्थापत्तितापत्तिः । तस्मादियमनुमानपक्षे प्रक्षेप्तव्या । इत्थं चानुमीयते – देवदत्तो बहिरस्ति जीवन्त्ये सति गृहे[]ऽसत्त्वाद् यो जीवन् यत्र नास्ति स ततोऽन्यत्रास्ति यथाहमिति । अतो वञ्चितमेतत् पञ्चमप्रमाणमिति ।

तदिदं शिक्ष्यतेऽस्माभिर्विरोधोऽस्त्येव मानयोः ।
न प्रसिद्धानुमाभङ्गो बहिर्भावे च नानुमा ॥ १३५३ ॥

 तत्र यत् तावदुक्तं प्रमाणयोर्विरोधे सत्येकस्याप्रमाणत्वं स्यादिति, तद् इदं रजतं नेदं रजतमितिवदुभयोरप्यसाधारणप्रमाणयोर्विरोध एव ।


  1. 'हाभावात्' क. पाठ:.