सामग्री पर जाएँ

पृष्ठम्:मानमेयोदयः.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५१
प्रमाणपरिच्छेदे उपमानपरक्षा


त्यक्षीक्रियमाणे स्मृतिगतं प्रत्यक्षोपदर्शितवाच्यार्थतया प्रतिलब्धतात्पर्य तदानीमेव संज्ञासंज्ञिसम्बन्धस्यावबोधकं भवति । यथा खलु नवकम्बलो वणिगिति भणितिनिशमनमनु विपणिमुपगतो वणिजि नवसु कम्बलेषु दृश्यमानेषु सङ्ख्याविशेषतात्पर्यमवधार्य वाक्यार्थ बुध्यते, तथात्रापि द्रष्टव्यम् । तस्मात् प्रत्यक्षानुगृहीतशाब्दसाध्यमेव सङ्गतिग्रहणमिति न प्रमाणान्तरमन्वेषणीयम् । किञ्च,

उपमानपदं लोके सादृश्ये सति विश्रुतम् ।
वैधर्म्ये धर्ममात्रे च तत्प्रयोगः कथं हि वः ॥ १२५३ ॥
तथातिदेशशब्दोऽपि वाक्ये साधर्म्यबोधके ।
प्रसिद्धः सोऽपि चान्यत्र कथ्यमानो दुनोति माम् ॥१२६॥

 इति ।

तस्मादनितरशरणं गोगतसादृश्यबोधमेव वयम्
उपमानं गृह्णीमो मानत्रयवादिनोऽपि तेन जिताः ॥१२७३॥
अत्र सादृश्यविषये गुरुणा कलहोऽस्ति नः ।
पदार्थान्तरमेवेदं सादृश्यं मन्यते गुरुः ॥ १२८३ ॥
वयं गुणादिसामान्यसमाहारं वदामहे ।
पदार्थावसरे किञ्चित् तत्प्रकारो वदिष्यते ॥ १२९३ ॥

इति मानमेयोदये

प्रमाणपरिच्छेदे उपमानपरीक्षा ।



+ 'भासनोपसंभाषा: (१. ३. ४७.) इति सूत्रेणात्मनेपद