सामग्री पर जाएँ

पृष्ठम्:मानमेयोदयः.djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४८
मानमयोदये


कदाचित् तु वनं प्राप्य गवयं वक्षिते यदा |
तदा तद्गतगोसाम्यं प्रत्यक्षेणैव गृह्यताम् ॥ ११३ ॥
यत् पुनस्तावदेवास्य भाति दूरस्थिते गवि ।
गवयेनापि सादृश्यं तत्र किं नाम कारणम् ॥ ११४ ॥
न हि पूर्वगृहीतं तद् येन स्मर्येत साम्प्रतम् |
दूरस्थितत्वाच्चेदानीं प्रत्यक्षेण न गृह्यते ॥ ११५ ॥
स्पष्टं च भासते तस्मात् प्रमाणान्तरमर्थ्यते ।
तत्रोपमानमाचख्युः शाबराः शाङ्करा अपि ॥ ११६ ॥

 तत्र च

गवयस्थितसादृश्यदर्शनं करणं भवेत् ।
फलं गोगतसादृश्यज्ञानमित्यवगम्यताम् ॥ ११७ ॥

 तार्किकास्तु उपमानमन्यादृशमन्वेषयन्तो गोगतसाहश्यज्ञानमनुमानीकुर्वन्ति । यथा - यो यद्गतसादृश्यप्रतियोगी स तेनापि सहशः, यथा करतलं करतलान्तरेण । गवयगतसादृश्यप्रतियोगी च गौः । तस्माद् गवयेनापि सदृश इति । त दयुक्तम् । इह हि यो यद्गतसादृश्यप्रतियोगी, स तेनापि सहश इति सामान्यव्याप्तिमात्रेणानुमीयमाने यःकश्चिदग्निरस्तीतिवदनियतविशेषं यत्किञ्चित् []सादृश्यमस्तीत्येतावदेव भासते, न तु नियतमेव गोर्गवयसादृश्यं प्रत्यक्षवदेव विस्पष्टं परिच्छिद्येत । तस्मान्नियतपरिच्छेददर्शनान्न सामान्यतोदृष्टानुमानमि-


  1. 'सामान्यम' ख. पाठ: