|
कदाचित् तु वनं प्राप्य गवयं वक्षिते यदा | |
तत्र च
|
गवयस्थितसादृश्यदर्शनं करणं भवेत् । |
तार्किकास्तु उपमानमन्यादृशमन्वेषयन्तो गोगतसाहश्यज्ञानमनुमानीकुर्वन्ति । यथा - यो यद्गतसादृश्यप्रतियोगी स तेनापि सहशः, यथा करतलं करतलान्तरेण । गवयगतसादृश्यप्रतियोगी च गौः । तस्माद् गवयेनापि सदृश इति । त दयुक्तम् । इह हि यो यद्गतसादृश्यप्रतियोगी, स तेनापि सहश इति सामान्यव्याप्तिमात्रेणानुमीयमाने यःकश्चिदग्निरस्तीतिवदनियतविशेषं यत्किञ्चित् [१]सादृश्यमस्तीत्येतावदेव भासते, न तु नियतमेव गोर्गवयसादृश्यं प्रत्यक्षवदेव विस्पष्टं परिच्छिद्येत । तस्मान्नियतपरिच्छेददर्शनान्न सामान्यतोदृष्टानुमानमि-
- ↑ 'सामान्यम' ख. पाठ: