सामग्री पर जाएँ

पृष्ठम्:मानमेयोदयः.djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४७
प्रमाणपरिच्छेदे उपभानपरीक्षा


भ्रान्त्यादिराहित्यम् । तच्च वाक्यार्थनिरूपणपुरस्सरमेव निरूपणीयमिति पूर्वोक्तप्रकारेण तेषामपि हेत्वसिद्धिरेवेत्यास्तां तावत् । तदेवं लौकिकं वैदिकमपि शाब्दं सिद्धम् । तत्र –

दुष्टवक्तृप्रणीतत्वदोषः शब्दे यदा भवेत् ।
तदा स्याद् व्यभिचारोऽपि पौरुषेयगिरां कचित् ॥ १०९ ॥
अपौरुषेये वेदे तु पुरुषस्पर्शसङ्गतः ।
कलङ्को न विशङ्कयेत तत् कुतो व्यभिचारिता ॥ ११० ॥

 वैदिकं च विधिमन्त्रार्थवादभेदेनोपदेशातिदेशभेदेन च बहुविधमित्यादि तु परिमितकथया न बोधयितुं शक्यत इत्युपरम्यते ।

इति मानमेयोदये

प्रमाणपरिच्छेदे शाब्दपरीक्षा।


अथोपमानपरीक्षा

दृश्यमानार्थसादृश्यात् स्मर्यमाणार्थगोचरम् ।
असन्निकृष्टसादृश्यज्ञानं ह्युपमितिर्मता ॥ १११ ॥

 यथा गवये गोसादृश्यदर्शनानन्तरं स्मर्यमाणे गवि गवयसादृश्यज्ञानम् । तथाहि----

नगरे खलु पूर्वं गां पश्यतोऽपि न भासते ।
तत्स्थं गवयसादृश्यं गवयस्यानिरीक्षणात् ॥ ११२ ॥