भ्रान्त्यादिराहित्यम् । तच्च वाक्यार्थनिरूपणपुरस्सरमेव निरूपणीयमिति पूर्वोक्तप्रकारेण तेषामपि हेत्वसिद्धिरेवेत्यास्तां तावत् । तदेवं लौकिकं वैदिकमपि शाब्दं सिद्धम् । तत्र –
|
दुष्टवक्तृप्रणीतत्वदोषः शब्दे यदा भवेत् । |
वैदिकं च विधिमन्त्रार्थवादभेदेनोपदेशातिदेशभेदेन च बहुविधमित्यादि तु परिमितकथया न बोधयितुं शक्यत इत्युपरम्यते ।
इति मानमेयोदये
प्रमाणपरिच्छेदे शाब्दपरीक्षा।
अथोपमानपरीक्षा
|
दृश्यमानार्थसादृश्यात् स्मर्यमाणार्थगोचरम् । |
यथा गवये गोसादृश्यदर्शनानन्तरं स्मर्यमाणे गवि गवयसादृश्यज्ञानम् । तथाहि----
|
नगरे खलु पूर्वं गां पश्यतोऽपि न भासते । |