तदिदमयुक्तम् ।
|
व्यभिचारविशङ्कामप्यनादृत्येन्द्रियादिवत् । |
आप्तप्रणीतत्वं खल्वत्र हेतुत्वेनोक्तम् । आप्तत्वं च भ्रान्त्याद्यभावोऽभिमतः । भ्रान्तिश्चास्य पुरुषस्य नास्त्येवेति क्वचिदपि न निरूपयितुं शक्यते । 'ऋषीणामपि भ्रान्तिराशङ्कयते, किमङ्ग पुनरर्वाचीनानामि त्युक्तत्वात् । एवमस्मिन् देशे काले वास्य भ्रान्तिर्नास्तीत्यपि दुर्निरूपमेव । तस्मादन्ततोऽस्मिन् वाक्यार्थेऽस्य भ्रमो नास्तीति वाक्यार्थज्ञानपुरस्सरमेव भ्रान्तिर्निवारणीया । अतो वाक्यार्थावगमात् पूर्वमाप्तत्वमसिद्धमेवेति कथं तेनानुमीयत इति हतं गुरुमतम् ।
|
एवं लौकिकशब्दानामनुमानत्ववारणात् । |
द्विप्रमाणा हि काणादादयो गुरूक्तप्रकारेणैव सर्ववाक्यार्थानामनुमेयत्वमाहुः । तेऽप्यनेनैव निरसनीयाः । तैरपि निर्दोषवाक्यत्वादिहेतुभिरेव वाक्यार्थोऽनुमातव्यः । निर्दोषत्वं च
- ↑ 'स्वार्थ बोधयितुं कस्मादसमर्था पदावली' क. पाठः.