|
सकलपदान्तरपूर्तावितरपदार्थैः समन्वितं स्वार्थम् । |
गामानयेति प्रथम श्रवणे हि गवानयनरूपस्यान्वितस्यार्थस्य शब्द एव बोधकतया ज्ञातः । अतस्तदनुसारेण पुनरपि पदानामेवान्वितार्थबोधकत्वं वाच्यं, न तु पदार्थानाम् । आवापोद्वापाभ्यां हि पदार्थेषु विविष्यमानेष्वपि तत्र तत्र तैस्तैरन्विता एव पदार्था दृष्टाः, न त्वेकाकिन इत्यान्विते स्वार्थे [१] पदानां शक्तिर्न परित्यज्यते । ननु किं केवलपदार्थबोधः पदेभ्यो नास्त्येव । अस्तीति ब्रूमः | पदानि तावत् पृथक् पदार्थान् स्मारयन्त्येव, न तु तावता विरमन्ति । स्मारितमेव तु स्वं स्वमर्थ पुनरितरपदार्थान्वितत्वेनाभिधायैव विरमन्तीति राद्धान्तः । अतः पदाभिधेय एवान्वितरूपों वाक्यार्थः, न तु पदार्थगम्यः । पदार्थगम्यत्वे च प्रमाणान्तरप्रतिपन्नानामपि पदार्थानामन्वयः स्याद्, न चासौ दृश्यत इति । तदिदं गुरुमतं गौरवादेव हेयम् । अस्मन्मते हि पदार्थानां स्मृतिसिद्धत्वाद् वाक्यार्थस्यापि लक्षणासिद्धत्वाच्छक्त्यन्तरकल्पनैव नास्तीति पदेषु शक्तिकल्पनाप्रस्ताव एव भवतां गौरवमायातम् । किञ्च पदशक्तितः पदार्थशक्तिरेव लघीयसी । तदा खलु गमनरूपस्यैकस्यैवार्थस्यान्वयबोधकत्वे कल्पिते गमनपर्यायाणा[२]मन्येषामप्यन्वयः सिध्यति । पदशक्तौ तु गमनार्थानामनन्तानां[३] पदानां शक्तिः कल्पनीयेति