पदान्तरयोगत्यागरूपावापोद्वापौ दृष्ट्वा गोशब्दः सास्त्रादिमतो वाचकः, आनय ( ना) शब्द आनयनक्रियावाचक इत्यादिपदार्थविवेकमवधारयति । तच्च पदैः पदार्थबोधनं शब्दशक्तिजन्यत्वादभिधानमेवेति पार्थसारथिप्रभृतयः । शब्दोऽपि संस्कारोद्बोधनद्वारेणैव पदार्थ बोधयतीति स्मरणमेव पदार्थज्ञानमिति चिदानन्दादयः । तथाच पदानां प्रत्येकमर्थेषु नियमितानामप्यादितः प्रभृति परिष्टमेकविशिष्टार्थज्ञानतात्पर्यं तावदवतिष्ठते । एवं पदार्थज्ञाने स्थिते यत् पुनस्तदनन्तरमेकविशिष्टार्थज्ञानरूपं वाक्यार्थज्ञानं जायते, तत् पदैरेव वा पदार्थस्मृतिभिर्वा जन्यत इति चिन्तायां पदानां पदार्थबोधोपक्षीणत्वाद् व्यवहितत्वाच्च पदार्था एव स्वसंसर्गरूपं वाक्यार्थं बोधयन्तीत्ययं [१]तावत् तार्किकादिसाधारणः पक्षः । वयं तु पदार्था लक्षणयैव वाक्यार्थ बोधयन्तीति ब्रूमः । वाच्यार्थानुपपत्त्या हि लक्षणा भवति । अत्र च पदैः स्मर्यमाणा गवादिपदार्था यद्यन्योन्यान्वयं विना सामान्यरूपा एवावतिष्ठेरन्, तर्हि पदानां व्युत्पत्तिसमयावधृतमेकविशिष्टार्थबोध[२]तात्पर्यं विरुध्ये[३]तेति सामान्यरूपस्य वाच्यस्यानुपपत्तेरन्योन्यान्वयरूपे विशेष एव पदार्थाः पर्यवस्यन्ति । ततश्व गौरियमानीयमानैव, आनयनं च गोसम्बद्धमेवेति परस्परान्वयलाभाद् गवानयनरूपवाक्यार्थसिद्धिः ।
|
तेनात्र पदावगताः पुनः पदार्था मिथोऽन्वयं यान्ति । |