|
इत्थं दृष्टान्तदोषाश्च वक्ष्यमाणाः समर्थिताः । |
इति । तस्माद् बाधितविशेषणः पक्षाभास एवेति न पञ्चमो हेत्वाभासोऽङ्गीकार्य इति । ये पुनरनुकूलतर्काभावे हेतोः प्रयोजकत्वं नास्तीत्यप्रयोजकं नाम हेत्वाभासान्तरमातिष्ठन्ते, तेऽपि व्याप्यत्वासिद्धमेव तथा मन्यन्ते । सर्वेष्वप्यनुमानेष्वनुकूलतकेंर्व्यभिचारशङ्कामणस्य निरुपाधिकत्वं स्थापनीयम् । ततस्तदभावे निरुपाधिकसम्बन्धानिश्चयाद् व्याप्त्यसिद्धिरेव । सोऽयं व्याप्त्यसिद्धो हेतुरुपाधिमानित्यन्यथासिद्ध इत्यप्रयोजक इति परप्रयुक्तव्याप्त्युपजीवीति सन्दिग्धव्याप्तिक इति च व्यपदिश्यते, न त्वाभासान्तरमिति । यत्तु भासर्वज्ञेनोक्तं-साध्यासाधकः पक्ष एव वर्तमानो हेतुरनध्यवसितः । यथा – नित्या भूर्गन्धवत्त्वादिति, सर्वे क्षणिकं सत्त्वादित्यादि च । तत्रादिमः प्रकारोऽसाधारण एव । 'सर्वे क्षणिकं सत्त्वादि'त्यत्र तु सर्वस्य पक्षीकृतत्वात् सपक्षभूतं विपक्षभूतं वा किञ्चिन्नास्तीत्यन्वयत्र्याप्तिर्व्यतिरेकव्याप्तिर्वा न वक्तुं शक्येति व्याप्त्यसिद्धिरेवेयं, न त्वाभासान्तरमित्यास्तामेतत् । तस्मादस्मदुक्तैव हेत्वाभासव्यवस्थेति । अथ दृष्टान्ताभासाः ।
|
साध्यसाधनयोर्व्याप्तिप्रतिपत्तिस्थलं हि यत् । |