सामग्री पर जाएँ

पृष्ठम्:मानमेयोदयः.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५
प्रमाणपरिच्छेदे अनुमानपरीक्षा ।


शयो भवति । यथा - साधारणाद् ऊर्ध्वत्वात् स्थाणुर्वा पुरुषो वेति, असाधारणाच गन्धवत्त्वात् पृथिवी नित्यानित्या वेति, वादिविप्रतिपत्तेश्च शब्दो नित्योऽनित्यो वेति । तत्र विप्रतिपत्ति- हेतुकः संशयः प्रतिसाधन प्रयोगे प्राप्त इत्यनैकान्ति केष्वेव प्रकरणसमोऽन्तर्भावयितव्यः । तस्य चास्य सप्रतिसाधनस्यैकेनैव हेतुना प्रतिकूलसाधने विरुद्धाव्यभिचारी नामावान्तरजातिः । यथा – क्षित्यादिकं सकर्तृकं कार्यत्वाद् घटवदित्यत्र 'क्षित्यादिकमीश्वरकर्तृकं न भवति कार्यत्वाद् घटवदिति । अत्र हि कार्यत्वं घटादिषु सकर्तृकत्वेनेवेश्वरकर्तृकत्वाभावेना[]प्यव्यभिचरितम् | ईश्वरकर्तृकत्वाभावश्च सकर्तृकत्वमुखेनेश्वरं साधयतां तेषां विरुद्ध एवेति विरुद्धाव्यभिचारित्वं कार्यत्वस्य ।

एवं परोदितैरेव पक्षहेतुनिदर्शनैः ।
विरुद्धसाधनेऽस्माकं विरुद्धाव्यभिचारिता ॥ ७०३ ॥
सर्वसत्प्रतिपक्षाणां विरुद्धाव्यभिवारिताम् ।
कदाचिचुदूराचार्या न त्वमुष्यैव केवलम् ॥ ७११ ॥
चिदानन्देन तु व्यक्तमयमेव तथोच्यते ।
यथातथास्तु नामैतन्नाभासःन्तरमत्र नः ॥ ७२३ ॥

 तत् सिद्धं बाधितविशेषणेऽनैकान्तिके वान्तर्भूतं सप्रतिसाधनत्वं नाम दूषणम् । भासर्वज्ञस्तु स्वपक्षपरपक्षसिद्धावपि त्रिरूपो हेतुः प्रकरणसम इत्युक्ता तत्र दुर्लभलब्धमेकमु-


  1. 'नाव्य' क. पाठः