|
अशरीरित्वमादाय स्थास्यामीति कृतोद्यमा । |
सव्यभिचारोऽनैकान्तिकः । विपक्षेऽपि वर्तमान इति यावत् । स एव साधारण इति चोच्यते । यथा[१] - अनित्यः शब्दः प्रमेयत्वादिति । अत्र हि प्रमेयत्वं[२] नित्येष्वपि वर्तत इत्यनैकान्तिकम् । यत्र तु विपक्षवृत्तित्वं सन्दिग्धं, स सन्दिग्धानैकान्तिकः । यथा क्षणिका भावाः सत्त्वादित्यत्राक्षणिकत्वेऽपि सत्त्वस्य बाधाभावाद् विपक्षवृत्तिः शङ्किता भवति । सति सपक्षे पक्षमात्रवृत्तिरसाधारणः । यथा - नित्या भूर्गन्धवत्त्वादिति । केचित् पुनराहुः - असाधारणोऽप्यनैकान्तिक एव । यथा खल्वन्वयस्य विपक्षेऽपि वर्तनात् प्रमेयत्वस्य व्यभिचारित्वम्, एवं व्यतिरेकस्यापि स्वस्थानभूतं विपक्षमतिक्रम्य सर्वेषु सपक्षेष्वपि वर्तनाद् गन्धवत्त्वस्यापि व्यभिचारित्वमस्तीति ।
|
सत्यं किन्त्वन्वयस्यैव स्वस्थानादतिलङ्घनम् । |