ग्निमान् पर्वतः धूमवत्त्वादि'त्येतावत्प्रयोगेऽनुपदर्शित व्याप्तिकत्वाद् व्याप्त्यज्ञानासिद्धः । एवमेव सन्दिग्धविशेषणासिद्धादयोंऽप्यज्ञानासिद्धभेदा ऊहितव्याः । तार्किकास्तु - पक्षे हेतुस्व
रूपाभाव एव स्वरूपासिद्धिरिति सम्बन्धीसिद्धस्य स्वरूपासिद्धत्वमाहुः । तद्युक्तम् । सर्वज्ञत्वादे: स्वरूपमेव क्वचिदपि नास्ति । चाक्षुषत्वादेस्तु पक्षसम्बन्धमात्रं नास्तीति पृथक्त्वप्रतीतेः ।
एते चासिद्धभेदाः यदान्यतरस्यैव वादिनोऽसिद्धा भवन्ति,
तदान्यतरासिद्धा इत्युच्यन्ते । तत्र 'बुद्धो मोहरहितः सर्वज्ञत्वादि'त्युक्तोऽस्माकमेवासिद्धः । एवमुभयोरप्यसिद्धावुभयासिद्धता वेदितव्या । यथा - शशो हिंस्रः विषाणित्वादिति ।
अथ विरुद्धः ।
|
सच बाधक इत्येवं वार्तिके व्यपदिश्यते । |
तत्र साध्यविपरीतव्याप्तः साध्यस्वरूपविरुद्धः । यथा 'शब्दो नित्यः कृतकत्वादिति । अत्र नित्यत्वविपरीतेनानित्यत्वेन व्याप्तं कृतकत्वमिति नित्यत्वं प्रति विरुद्धत्वात् तस्य बाधकं भवति । साध्यविशेषस्य विपरीतेन विशेषेण व्याप्तो विशेषविरुद्धः । यथा ‘क्षित्यादिकं सकर्तृकं कार्यत्वाद् घटवदिति । अत्र साध्यस्य क्षित्यादिकर्तुरशरीरित्वं नाम विशेषः । तस्य विपरीतेन शरीरित्वरूपेण विशेषेण व्याप्तं घटादिषु कार्यत्वं दृष्टमित्यशरीरित्वस्य बाधकं भवति ।
|
अशरीरित्वबाघे च कर्तृमत्तापि[१] बाध्यते । |
- ↑ 'हि' क. पाठः.