सामग्री पर जाएँ

पृष्ठम्:मानमेयोदयः.djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१
प्रमाणपरिच्छेदे अनुमानपरीक्षा ।


श्रयासिद्धः । यथा - गगनकुसुमं सुरभि कुसुमत्वादिति । हेतोः पक्षसम्बन्धाभावे सम्बन्धसिद्धः । यथा – शब्दोऽनित्यः चाक्षुषत्वादिति । यस्य तु पक्षैकदेशे सम्बन्धो नास्ति, स भागासिद्धेः []। स एव पक्षव्याप्त्यभावाद् व्याप्त्यसिद्ध इति च क्वचिदुच्यते । यथा - वेदाः पौरुषेयाः उपाख्यानात्मकत्वादिति । यदा तु विशेषणस्य विशेष्यस्य वा पक्षसम्बन्धो नास्ति, तदा विशेषणासिद्धविशेष्यासिद्धौ भवतः । यथा अनित्यं गगनं जन्यत्वे सति द्रव्यत्वादिति, द्रव्यले सति जन्यत्वादिति च । यत्र तु विशेषणं व्यावर्त्याभावाद् व्यर्थमेवेति सम्बन्धान भवति, स व्यर्थविशेषणासिद्धः । यथा घटोऽनित्यः द्रव्यत्वे सति कृतकत्वादिति । एवं कृतकत्वे सति द्रव्यत्वादिति व्यर्थविशेष्यासिद्धः । यदा तु हेतुः पक्षसम्बन्धिवेन न प्रयुज्यते, किन्त्वाश्रयान्तरसम्बन्धित्वेन, तदा व्यधिकरणासिद्धः । यथा अनित्यो घटः तद्गुणस्य कृतकत्वादिति । अत्र न घटाश्रितं कृतकत्वं, किन्तु तद्गुणाश्रितमिति व्यधिकरणासिद्धः । यत्र[] पक्षाद् व्यतिरेकाभावेन पक्षसम्बन्धित्वं नास्ति, स व्यतिरेकासिद्धः । यथा- -अनित्यं गगनं गगनत्वादिति । अत्र गगनस्वरूपादन्यद् गगनत्वं नाम नास्तीति । एषां स्वरूपादीनामज्ञानेऽज्ञानासिद्धः सन्दिग्धासिद्धो वा भवति । यथा ---- देवदत्तो बहुधनो भविष्यति तद्धेतुभूतादृष्टशालित्वादिति । अत्र तादृशादृष्ट॑[]सद्भावे प्रमाणं नास्तीत्यज्ञातत्वम् । एवम् 'अ-


  1. 'द्ध: । (यथा?) स' क. पाठः.
  2. 'स्य तु प' क. पाठ:.
  3. 'ष्टशाळिव्वे प्र' क. पाठः.