त्तिबाधः, अर्थापत्त्या बहिर्भावस्य साध्य[१]मानत्वात् । 'रूपवान्
वायुः द्रव्यत्वात् पृथिवीवदि'त्यत्रानुपलम्भबाधः । अन्येऽपि
प्रतिज्ञादोषाः सन्ति ।
|
यावज्जीवमहं मौनीत्युक्तौ हि स्वोक्तिबाधनम् | |
इति । व्याप्तः साधनधर्मो हेतुः । असिद्धो विरुद्धोऽनैकान्तिकोऽसाधारणश्चेति चत्वारस्तदाभासाः । तत्रासिद्ध उच्यते ।
|
हेतोर्व्याप्तिमतः पक्षसम्बन्धित्वेन वेदनम् । |
तत्र हेतुस्वरूपस्यैवासिद्धौ स्वरूपासिद्धः । यथा 'बुद्धो मोहरहितः सर्वज्ञत्वादि'त्यत्र सर्वज्ञत्वं नाम नास्माकं क्वचित् सिद्धम् । अस्य विशेषणासिद्धो विशेष्यासिद्ध इति च द्वौ भेदौ भवतः । आद्यो यथा 'बुद्धो धर्मोपदेष्टा सर्वज्ञत्वे सति शरीरित्वादि'ति, अन्यस्तु 'शरीरित्वे सति सर्वज्ञत्वादिति । व्याप्त्यभावे व्याप्यत्वासिद्धः । यथा – क्रतुहिंसा अधर्मः हिंसात्वादिति । अत्र सोपाधिकत्वाद् व्याप्त्यभावः । पक्षाभावे त्वा-