सामग्री पर जाएँ

पृष्ठम्:मानमेयोदयः.djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९
प्रमाणपरिच्छेदे अनुमानपरीक्षा ।


अथ प्रतिज्ञाहेत्वोश्च दृष्टान्तस्य च दूषणम् |
क्रमेण कथ्यतेऽस्माभिर्यद् वेद्यं वादिनां पुरः ॥ ५७३ ॥

 तत्र परप्रतिपादनार्थ पक्षवचनं हि प्रतिज्ञा | जिज्ञासितधर्मविशिष्टश्च पक्ष इत्युक्तम् । ततश्च तद्रूपपरिच्छेदात् तद्विपरीत परिच्छेदा वान्यत्राप्रसिद्धत्वाद् वा यो न जिज्ञासितो धर्मस्तद्विशिष्टस्य न पक्षत्वमिति सिद्धविशेषणो बाधितविशेषणोऽप्रसिद्धविशेषणश्च पक्षाभास एवेति तदावेदकं वचनमपि प्रतिज्ञाभास एव । तद् यथा - वह्निरुष्ण इति सिद्धविशेषणः । वहिरनुष्ण इति बाधितविशेषणः । क्षित्यादिकं सर्वज्ञकर्तृकमित्यप्रसिद्धविशेषणः, घटादिषु क्वचिदपि सर्वज्ञकर्तृकत्वस्यासिद्धत्वात् । बाधकप्रमाणभेदेन बाधित विशेषणत्वावान्तरविशेषो द्रष्टव्यः । तत्र वह्निरनुष्ण इति प्रत्यक्षबाधः पूर्वमुक्तः । अनुमानस्यापि यदा प्रबलत्वं स्पष्टं भवति, तदानुमानबाधः । यथा 'मन इन्द्रियं न भवति अभूतात्मकत्वाद् दिगादिवदिति । अत्रेन्द्रियत्वेन मनसोऽनुमीयमानत्वान्मनोधर्मिग्राहकेणैवानुमानेन तस्यानिन्द्रियत्वं बाधितम् । एवं शीघ्रभाविनामनुमानानां सर्वत्र बाधकत्वं द्रष्टव्यम् । शाब्दबाधो यथा - यागादयः स्वर्गसाधनं न भवन्ति क्रियात्वाद् गमनबादिति । अत्र 'स्वर्गकामो यजेते त्यादिवाक्यैर्यागादेः स्वर्गसाधनत्वबोधनात् तद्भावः शाब्दबाधितः । यथा वा - स्पृश्यं नरास्थि प्राण्यङ्गत्वात् शङ्खवदिति । 'गौर्गवयसदृशो न भवति प्राणित्वात् पुरुषवादि' त्यत्रोपमानबाधः । देवदत्तो बहिर्नास्ति तत्वादि' त्यत्रार्थाप-