परं[१] बोधयितुं पक्षवचनं[२] प्रतिज्ञा पर्वतोऽग्निमानिति । साधनत्वावेदकं लिङ्गवचनं हेतुः धूमवत्त्वादिति । व्याप्तिप्रदर्शनपुरस्सरं
दृष्टान्ताभिधानमुदाहरणं यो यो धूमवान् स सोऽग्निमान् यथा
महानस इति । सिद्धव्याप्तिकस्य पक्षे उपनयनमुपनयः धूमवांश्रायमिति । सहेतुकं पक्षस्य पुनर्वचनं निगमनं तस्मादग्निमानितेि । अत्र ब्रूमः
|
प्रतिज्ञया निगमनं हेतुनोपनयस्तथा । |
सौगतास्त्वाहुः [३]यो धूमवान् सोऽग्निमान् यथा महानसः, धूमवांश्चायमित्येतावदुक्तौ तस्मादग्निमानित्यर्थात् सिध्यति । अत उदाहरणोपनयौ द्वावेवावयवाविति । तदपि साध्यांशेऽध्याहारदोषप्रसङ्गादपास्तम् ।
|
तदेवं पौनरुक्त्येन तथाध्याहारदोषतः । |
तत्रोदाहरणान्तं यथा - पर्वतोऽग्निमान्, धूमवत्त्वाद्, यो धूमवान् सोऽग्निमान् यथा महानस इति । उदाहरणादिकं यथा - यो धूमत्रान् सोऽग्निमान् यथा महानसः, धूमवांश्रायं, तस्मादग्निमानिति ।