मङ्गीकृतं स्यादिति तर्के प्रयुक्ते तदपि किं न स्यादिति शङ्का न लोकविदामङ्कुरति । ननु तथापि धूमस्याग्भिः कारणमिति [१]कुतो नि[२]र्णीयत इति शङ्का नापैति | मैवम् । यद्यग्निः कारणं न स्यात् तर्हि कारणान्तरानुपलम्भेन धूमस्य निष्कारणत्वमेव प्रसजेदिति तर्के सति समस्तविजयात् । तदेवं तर्के व्यभिचारशङ्कायां सर्वतो निरुद्धायामुपाध्यन्तरशङ्काकथापि विधूतैव । ततश्चादृश्योपाधिशङ्का सर्वथा दुर्वारेति चार्वाकदुर्वादोऽपि निर्वासित इति ।
|
अथवोपाधिशङ्कैव तर्केर्निष्कास्यते स्फुटम् । |
इत्यादि । ततश्च -
|
शङ्काव्याघातपर्यन्तमेवं सर्वानुमास्वपि । |
अयं घट इति प्रत्यक्षं हि सुगतकथितपरमाणुगोचरतापराणोदिना तर्केणानुगृहीतमेवावयविगोचरं भवति । यदि परमाणुविषयता स्यात्, तर्हि एकत्वेन महत्त्वेन चावभासो न