सामग्री पर जाएँ

पृष्ठम्:मानमेयोदयः.djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७
प्रमाणपरिच्छेदे अनुमानपरीक्षा ।


तर्कः । स च प्रत्यक्षवादिनामप्यनुकूलः । तैरपि प्रत्यक्षत्वं साधयित्वान्यथा कर्मैव न स्यादिति वक्तुं शक्यत्वादिति । आत्माश्रयादयश्च दोषास्तर्क एवान्तर्भूताः अनिष्टप्रसङ्गरूपत्वात् ।

स्वेनैव स्वस्य सिद्धिर्या तदात्माश्रयदूषणम् ।
अनेनान्यस्ततश्चायमित्यन्योन्याश्रयं भवेत् ॥ १२ ॥
अनेनान्यस्ततश्चान्यस्ततोऽसाविति चक्रकम् ।
अतीतास्पृष्टमन्यान्यग्रहणं त्वनवस्थितिः ॥ १३ ॥
गौरवं लाघवं चेति तर्को सार्वत्रिकावुभो ।
गौरवं कल्पनाधिक्यं लाघवं त्वल्पकल्पना ॥ १४ ॥
दोषप्रसङ्गरूपत्वं गौरवस्यैव विद्यते ।
साध्ये गुणकथाद्वारा लाघवस्य प्रसङ्गता ॥ १५ ॥
साध्याभावानुवादेन दोषः साध्ये गुणोऽपि वा ।
यत्रानुकूलतर्कोऽसौ साध्यसिद्भावनुग्रहात् ॥ १६ ॥
साध्यस्यैवानुवादेन यदनिष्टप्रसञ्जनम् ।
स तर्कः प्रतिकूलः स्यात् साध्यसिद्धिनिरोधनात् ॥ १७॥

इति । स चायं तव्याप्तिग्रहणवेलायामनुमानोत्थानसमये वा व्यभिचारशङ्कां निरस्य व्याप्तिं शोधयन्ननुमानस्यानुग्राहको भवति । ननु यद्यग्निर्न स्यात् तर्हि धूमोऽपि न स्यादित्यनेनैव तर्केण व्यभिचारशङ्का न निवर्तते, अग्न्यभावेऽपि धूमः किं न स्यादिति शङ्कायाः पुनरप्यनपायात् | सत्यम् । अत एव शङ्काव्याघातपर्यन्तं तर्कमार्गेणैव गन्तव्यमिति तार्किकाः । इह च यद्यग्न्यभावेऽपि धूमः स्यात, तर्हि कारणं विनापि कार्यजनन-