सामग्री पर जाएँ

पृष्ठम्:मानमेयोदयः.djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४
'मानमेयोदये


वात् । अतः साध्यव्यापकत्वमप्याश्रयणीयम् । सावयवत्वघटत्वादीनां गुणक्रियादावनित्यत्वव्यापकत्वाभावात् । तथापि शब्देतरत्वस्यानित्यत्वव्यापकत्वादुपाधित्वं स्यादिति तन्निवृत्त्यर्थं सम- शब्द इति । []इदं त्वनुमानं व्याप्तिप्रदर्शनमात्रपरमेव । न स्वसिद्धान्त परमिति वेदितव्यम् । ननु पर्वतेतरत्वाभावेऽप्यग्निरस्ति चेदयं दोषः स्यादिति तर्कस्यासम्भवेन पर्वतेतरत्वस्याग्निव्यापकत्वमेव नास्ति | सत्यम् । तथापि तस्य व्यापकत्वेनावगमादक्लेशेन तन्निरासार्थ समशब्दश्चिदानन्दादिभिराश्रितः ।

समव्याप्तिमतामेव सर्वथापि ह्युपाधिता ।
इति विस्पष्टतार्थ च समशब्दो न दूषणम्[] ॥१०॥

 अस्य चोपाधेः [] साध्यव्यापकत्वाद्यनिश्वये शङ्कितोपाधित्वम् । यथा – मैत्रीतनयत्वेनाष्टमगर्भस्य श्यामत्वे साध्ये शा[]काद्याहारपरिणाम उपाधिः । अष्टमपुत्रे च तस्य नास्तित्वे स्थित एव तस्य साधनाव्यापकत्वं भवेत् । स च तत्रापि शङ्कयत एवेत्यनिश्चितमेव साधनाव्यापकत्वम् । अतः शङ्कितोपाधिरसाविति । क्वचिच्च साधनस्य विशेष एव प्रयोजको भवति । यथा 'अयं द्विजो वेदज्ञो भविष्यति द्विजत्वाद्' इत्यत्र बु[]द्ध्यादिमद्द्विजत्वमुपाधिरिति ।

तस्मादुपाधिमिच्छद्भिः पक्षभूमिमनाप्नुवन् ।
सपक्षान् व्याप्नुवन् धर्मो मृग्यतामिति सङ्ग्रहः ॥ ११ ॥


  1. इत आरभ्य वेदितव्यमित्यन्तं ख. पुस्तके न दृश्यते.
  2. 'मिति ।अ'ख. पाठः.
  3. 'साधनाव्या' ख. पाठ:
  4. 'कादिप' ख. पाठ:.
  5. 'द्धिम'ख. पाठः.