सामग्री पर जाएँ

पृष्ठम्:मानमेयोदयः.djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रमाणपरिच्छेदे प्रत्यक्षपरीक्षा ।


इति । किञ्च सविकल्पकानन्तरमेवार्थक्रियादर्शनात् तस्यार्थक्रियाकारित्वलक्षणं प्रमाणत्वं दुर्निवारम् । नन्वर्थक्रियाकारित्वमस्यार्थतोऽतिविप्रकर्षाभावाद् दैवागतमेव । न स्वाभाविकम् । वस्तुतस्त्वयं विकल्पो मिथ्या, अवस्तुभूतसामान्यादिविषयत्वादिति चेत् । मैवम् । अनुमानविकल्पस्याप्यप्रामाण्यप्रसङ्गात् सामान्यादेर्वस्तुत्वस्य साधयिष्यमाणत्वाच्च । अतः प्र माणमेव सविकल्पकम् । ननु तथापि कथमस्य प्रत्यक्षशब्दवाच्यत्वं, निर्विकल्पकव्यवधाने[]न साक्षादक्षजत्वाभावात्, परम्परयाक्षजस्य प्रत्यक्षत्वेऽनुमानादीनामपि प्रत्यक्षत्वप्रसङ्गात् । मैवम् । पङ्कजादिष्विव योगरूढिस्वीकारेणानुमानादिषु प्रत्यक्षशब्दस्याप्रवृत्तेः । अत्र गुरुराह - न पङ्कजादिषु रूढिरस्ति, अवयवशक्त्यैव पद्मे वृत्त्युपपत्तेः । कुमुदादिष्व[]प्रवृत्तिस्तु तेष्वप्रयोगादेव भविष्यतीति । तदयुक्तम् । पङ्कजशब्दस्य पद्मे वृत्तौ का सामग्रीति चिन्तायां योगमात्रस्य कुमुदादिष्वपि सद्भावेन व्यभिचाराद् रूढिरपि सामग्रीत्वेन कल्प्या । योगश्च प्रतीतो न हातुं शक्य इत्युभयसिद्धेः । तस्माद् योगरूढिशक्त्या निर्विकल्पकसविकल्पकयोरेव प्रत्यक्ष[]शब्दवाच्यत्वं नाक्षापेक्षाणामप्यनुमानादीनामिति सिद्धम् । सविकल्पकेन च द्रव्यजातिगुणकर्मनामभिः पञ्चधा विकल्पो भवति । यथा वेणुमानयं, गोपोऽयं, श्यामोऽयं, गायत्ययं, गोविन्दोऽयमि[] ति । प्रत्यभिज्ञाप्रत्यक्षमपि षष्ठो


  1. 'ने सा' ख. पाठ:
  2. ब्ववृ' ख. पाठः
  3. 'क्षवा' ख. पाठः
  4. 'ति । स एवायमिति प्र' ख. पाठः,