सामग्री पर जाएँ

पृष्ठम्:मानमेयोदयः.djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७
प्रमाणपरिच्छेदे प्रत्यक्षपरीक्षा


जातिगुणकर्मणां च स्वाश्रयैस्तादात्म्यमेव सम्बन्ध इति पश्चातू साधयिष्यते । तस्माद् द्वेधा त्रेधा वा सन्निकर्षः । तार्किकाः पुनस्तादात्म्यस्थाने समवायमभिषिञ्चन्तोऽन्यथा सन्निकर्षमाहुः - संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायः, विशेषणविशेष्यभावश्चेति षोढा सन्निकर्षः । तत्र चक्षुरादिभिः संयोगाद् द्रव्याणां ग्रहणम् । चक्षुरादिसंयुक्ते द्रव्ये समवायाद् गुणादीनां ग्रहणम् । संयुक्ते द्रव्ये समवेतेषु गुणादिषु समवायाद् गुणत्वादीनां ग्रहणम् | शब्दस्य चाकाशगुणत्वादाकाशात्मकेन श्रोत्रेण समवायाद् ग्रहणम् । शब्दत्यादीनां तु श्रोत्रसमवेते शब्दे समवायाद् ग्रहणम् । अभा वस्य तु भावधर्मभूतयोः संयोगसमवाययोरभावात् संयुक्तभूतलादिविशेषणविशेष्यरूपसन्निकर्षेण ग्रहणम् । तथैव समवायस्याप्यद्रव्यत्वेन संयोगाभावात् समवायान्तराश्रयणेऽनवस्थाप्रसङ्गाद् विशेषणविशेष्यभाव एव सन्निकर्ष इति ।

तत्राद्यं त्रितयं तावन्नाममात्रेण भियते ।
समवायादयस्त्वन्ये सन्निकर्षा निराश्रयाः ॥ ८ ॥

 शब्दस्य हि श्रोत्रगुणत्वाभावात् समवायाख्यः समवेतसमवायाख्यश्च सन्निकर्षो निरवकाशः | अभावस्य च प्रत्यक्षत्वाभावात् समवायस्य च शशशृङ्गायमाणत्वाद् विशेषणविशेष्यभावसन्निकर्षोऽपि हेयः । किञ्च चक्षुःसंयुक्तेनार्थेनाभावसमवाययोर्विशेषणविशेष्यभावो न सम्भवति । दण्डी पुरुष इत्यादौ सम्बन्धान्तरपूर्वकस्यैव विशेषणविशेष्यभावस्य दर्शनाद्, अभावसमवाययोश्चार्थेन सम्बन्धान्तराभावादिति । प्राभाक-