सामग्री पर जाएँ

पृष्ठम्:मानमेयोदयः.djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
मानमेयोदये


योजनान्तरितेष्वपि शनैश्वरादिषु झटितिदर्शनं वेगमात्रादसम्भाव्यमित्युपेक्षितमस्माभिः । एतानि च चक्षुरादीन्यनुहूतरूपस्पर्शत्वात् प्रत्यक्षेण न गृह्यन्त इति सिद्धानीन्द्रियाणि । सन्निकर्षस्तु द्विविधः संयोगः संयुक्ततादात्म्यं चेति । तत्र पृथिव्यतेजसां चक्षुस्त्वगिन्द्रियाभ्यां संयोगाद् ग्रहणम्, वायोस्त्वक्संयोगाद्,[] दिङ्नभस्तमसां[] दृक्संयोगात, शब्दस्य श्रोत्रसंयोगाद्, आत्मनो मनःसंयोगात् । अत्र विभुनोरप्या[]त्ममनसोरजन्यसंयोगसाधनात् संयोगः | []कालस्य तु युगपदादिप्रत्ययस्य कालविषयत्वेन्द्रियजन्यत्वयोर्वक्ष्यमाणत्वात् तस्य च सर्वेन्द्रियजन्यत्वात् सर्वेरपीन्द्रियैः संयोगाद् ग्रहणम् । यदा तु चक्षुरादिसंयुक्तेषु पूर्वोक्तेषु पृथिव्यादिषु तदात्मभूतानां जातिगुणकर्मणां ग्रहणं, तदा संयुक्ततादात्म्यं सन्निकर्षः । तदुक्तं -

" रूपादीनां तु संयुक्तद्रव्यतादात्म्यमेव नः ।
प्रतीतिकारणं तस्मान्न सम्बन्धान्तरस्पृहा ॥ "

इति । यदा तु जातिगुणकर्मगतानां सत्तारूपत्वकर्मत्वादीनां ग्रहणं, तदा तेषामपि परम्परया तादात्म्यसंभवात् संयुक्ततादात्म्यमेव सन्निकर्ष इति मन्यामहे । यद्वा यथा परे रूपत्वादिग्रहणाय संयुक्तसमवेतसमवायमाश्रयन्ते, तथास्माकमपि संयुक्ततदात्मतादात्म्यं नाम तृतीयः सन्निकर्षोऽस्तु । का हानिः ।


  1. 'द् । न' ख. पाठः.
  2. 'सो' ख. पाठ:.
  3. 'पि शब्दम?" ख. पाठः.
  4. 'दिक्कालयोस्तु सकलेन्द्रिय संयोगाद् ग्रहणं, तो खल्बर्थान्तरपर- तन्त्रतया गृह्यमाणौ सकलेन्द्रियैरपि गृह्येते इति स्थितिः । यदा' ख. पाठः.