सामग्री पर जाएँ

पृष्ठम्:मानमेयोदयः.djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२४


वेलालङ्घिपयः पयोधिविसरत्कल्लोलतुल्योदयै-
 रालापाविषयैर्यशोभिरखिलं लोकं परिष्कुर्वते ।
लीलानिर्जितशात्रवाय च वयं तुभ्यं किमशास्महे
 शैलाब्धीश्वर! मानवेदनृपते! जीवाः सहस्रं समाः ॥ ९ ॥
युष्मत्कीर्तिपयो नितान्तमहता युष्मत्प्रतापाग्निना
 तप्ता दण्डकटाहतोऽपि नितरामुत्सिच्यमानं मुहुः ।
नैवायाति विशांपते ! विरलतां नैवोष्णभावं कदा-
 प्यादत्ते नरवर्य! किञ्च नितरां माधुर्यमालम्बते ॥ १० ॥
त्रिभुवनकमले त्वदीयकीर्तिः
 प्रचुरमरन्दविलासमादधाति ।
बुधसमितिरसौ तु चञ्चरीक-
 प्रकरदशामपि तत्र मानवेद! ॥ ११ ॥


सम्पूर्ण चेदं मानमयोदयनाम
प्रकरणम् ।

शुभं भूयात् ।