प्रमेयपरिच्छेदे अभावनिर्णयः ।'
भो भो दुष्कर्मवर्गाः ! परिहरत मदी-
यामिमामङ्गवल्लीं
ब्रूमः सौहार्दयोगात् परिचयजनित -
न्नान्यथा यात शङ्काम् ।
हन्ता युष्मत्कुलानां दलितकुवलय-
श्यामलैः कोमलैस्तै-
र्गात्रैर्नेत्रोत्सवं नो वितरति भगवान्
भार्गवीभाग्यभूमा ॥ ४ ॥
यः ख्यातः पुरुषोत्तमस्त्रिजगति प्रज्ञाकवित्वादिभिः
पुत्र्यास्तस्य सुतस्तदीयतनयात् कौमारतन्त्राम्बुधेः ।
सुब्रह्मण्य इति त्रिलोकविदितादापीतशास्त्रामृतः
सोऽहं पूरितवानिदं प्रकरणं नाम्ना च नारायणः ॥ ५॥
कृष्णो विबुधाधिपतिर्निष्णातो वितरणेषु विद्यायाः ।
मुष्णातु हृदयतिमिरं पुष्णातु च मङ्गलानि सकलानि ॥ ६॥
कुमारिलवचोजालपयोधिशरदिन्दवे ।
शिष्यसन्तानसन्तानतरवे गुरवे नमः ॥ ७ ॥
सुब्रह्मण्यादधीताः क्षितिविबुधपतेः काशिकातर्कमार्गा
रामाचार्याञ्च पश्चात् सकलमधिगतं येन कौमारतन्त्रम् ।
कृष्णात् काव्यार्थमीमांसकपरिवृढतः काव्यमार्गावगन्ता
सोऽहं नारायणाख्यो व्यलिखमखिललोकापहासार्थमेतत् ॥
इति श्रीनारायणप्रणीते मानमेयोदये
प्रमेयपरिच्छेदे अभावनिर्णयः ।
|