सामग्री पर जाएँ

पृष्ठम्:मानमेयोदयः.djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५
प्रमाणपरिच्छेदे प्रत्यक्षपरीक्षा ।


भवति । व्यजनपवनस्य चाङ्गसङ्गिसलिलस्पर्शाभिव्यञ्जकत्वदर्शनात् स्पर्शोपलम्भकस्य त्वगिन्द्रियस्य वायवीयत्वम् । शब्दग्राहकतया कल्प्यस्य श्रोत्रस्य तु [१]परिशेषादाकाशात्मकत्वम् । चक्षुरादीनां खल्वन्येन्द्रियारम्भकेणारब्धत्वं न दृष्टमिति तेजःप्रभृतीनामन्येन्द्रियारम्भकत्वात् तेषां श्रोत्रत्वं न भवति । भूतात्मकत्वमेव च बहिरिन्द्रियाणां दृष्टमित्यवशिष्टस्याकाशाख्यस्य भूतस्यैव श्रोत्रत्वमिति । तार्किका[२]स्तु शब्दस्याकाशगुणत्वात् तद्वाहकस्य श्रोत्रस्याकाशात्मकत्वमिति साधयन्ति । तत् तस्य गुणत्वासिद्धेरयुक्तम् । मनस्तु सुखाद्यपरोक्षज्ञानसाधनेन्द्रियत्वेन कल्प्यते । तस्य च विभुत्वं साधयिष्यते । तथापि शरीरावच्छिन्नस्यैव तस्येन्द्रियत्वमिति तत्प्रदेश एव कार्याणि करोति । रूपादिज्ञानेष्वपि तच्चक्षुरादिपरतन्त्रं प्रवर्तत एव, अनुमानादिष्वपि लिङ्गादिसहायमिति स्थितिः । अत्र चक्षुःश्रोत्रयोः प्राप्यकारित्वे विवादोऽस्तीति तयोरपि बहिरिन्द्रियत्वात् त्वगादिवत् प्राप्यकारित्वं साधनीयम् । ततश्च चक्षुषः पृथुतरपृथिवीधरादिदर्शनात् पृथ्वग्रत्वमपि तेजःस्वभावसिद्धमाश्रयणीयम् । तथोन्मीलनक्षण एवं दूरतरशनैश्वरादिदर्शनाद् व्याप्यावस्थितेन बाह्यतेजसा निर्गमनसमय एवैकीभावः कल्पनीयः । न च बाह्यतेजसः सकलव्यापित्वात् केरलेभ्योऽपि गङ्गादर्शनप्रसङ्गः । अदृष्टोपगृहीतेनैवालोकभागे[३]नैकीभावात् । तार्किकास्तु तदिदं दूरदर्शनं वेगातिशयात् साधयन्ति । तदनन्त-


  1. ↑ पारिशेष्यादा' ख. पाठ:.
  2. ↑ 'कादयस्तु' ख. पाठ:-
  3. ↑ 'गे (न?) नै'ख. पाठः