सामग्री पर जाएँ

पृष्ठम्:मानमेयोदयः.djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११८
मानमेयोदये


साम्प्रतम् । घटवति भूतलेऽपि तद्व्यवहारप्रसङ्गात् । अस्ति हि तत्रापि भूतलविज्ञानम् । ननु तन्मात्रज्ञानस्यैवाभावव्यवहारकारणत्वमिति चेद्, मैवम् । मात्रशब्दस्य भूतलातिरिक्तार्थत्वे तत्वान्तरत्वापत्तिः, अनतिरिक्तार्थत्वे घटवति प्रसङ्ग इति पूर्वोक्त्तदोषानतिवृत्तेः । न चैकाकिभूतलवेदनं तत्कारणमिति वाच्यम् । एकाकिशब्दस्यैकस ङ्यायोगित्वेऽर्थे घटवति प्रसङ्गः, 'एकादाकिनिच्चासहाये' (५. ३. ५२ ) इति द्वितीयासहायत्वेऽर्थे तत्त्वान्तरत्वापत्तिरिति घट्टकुटीप्रभातन्यायस्य पुनरप्यनतिवृत्तेः । एताभिरेव युक्तिभिः केवलादिशब्दोऽपि व्याख्यातो वेदितव्यः । अत्राह भवनाथः 'यत्राभावधीस्तत्र संसृष्टस्वरूपधीर्नास्ति स्वरूपधीस्त्वस्तीति द्वयी स्वरूपधीरास्थेया । तत्र संसृष्टस्वरूपधीतोऽन्या स्वरूपधीस्तन्मात्रधीः । तद्धीवेद्यं च तन्मात्रमिति न मेयान्तरम्' इति । तत्र प्रष्टव्यं, संसृष्टस्वरूपधीतोऽन्यस्याः स्वरूपधियः किं प्रमेयमिति । ननूक्तमेव तद्धीवेद्यं च तन्मात्रमिति, तर्हि मात्रशब्दस्य भूतलातिरिक्तार्थत्वे तत्त्वान्तरत्वम्, अनतिरिक्तार्थत्वे घटवति प्रसङ्गः । ननु घटवति संसृष्टस्वरूपधीरेवेति न तत्र प्रसङ्ग इति चेद्, न । उक्तया रीत्या स्वरूपधीद्वयस्यापि तत्रैव प्राप्तत्वादिति न प्राचीनदोषादुत्तारः । तस्मादभावो नाम तत्त्वान्तरमवश्याश्रयणीयम् । अतः पञ्चैव पदार्थाः । ननु शून्यमेवेदं जगदिति वादिनि माध्यमिके जीवति सति कथं पदार्थपञ्चकविभागसिद्धिः । एवं हि स वदति 'सर्वे ज्ञानं शून्यविषयं ज्ञानत्वात् स्वप्नादिज्ञानवदि 'ति । ननु तत्रापि विज्ञानमस्त्येवेति कथं जगतः शून्यात्मकत्वमिति