सामग्री पर जाएँ

पृष्ठम्:मानमेयोदयः.djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११६
मानमेयोदये


सिद्धेः । सिद्धेहि समवाये तादृशानां प्रत्ययानां समवायविषयत्वोपवर्णनमुपपद्यते । कश्च समवायस्येन्द्रियेण सन्निकर्षः । न तावद् विशेषणविशेष्यभावः, तस्येन्द्रियसन्निकर्षत्वासिद्धेः प्रागेव समर्थितत्वाद्, अन्यस्य च सन्निकर्षस्थानुपपत्तेः अनभ्युपगमाच्च । नापि प्राभाकरानुमतमनुमानं प्रमाणम् । तत्र तावद् 'इह गवि गोत्वमिति प्रत्ययोऽधिकरणाधिकर्तव्यतासम्बन्धनिबन्धनः इहेति प्रत्ययत्वाद् इह घंटे तण्डुला इति प्रत्ययवद्' इत्यनुमानम् 'इह भूतले घटो नास्ती 'ति प्रत्ययेन व्यभिचारादनुपपन्नम्। 'विवादपदं विशेषणविशेष्यभावसम्बन्धनिबन्धनं विशिष्टज्ञानत्वाद् दण्डीति ज्ञानवद्' इत्यनुमानं तु 'विन (वेष्टा ? ष्टो) घट' इति प्रत्ययेन व्यभिचारादुपेक्षणीयम् । यत् पुनः, ' (आगमसन्निविहीनस्याप्युपन ? ) वस्तुपरतन्त्रतया भानं समवायगमकम्' इति भवनाथेन कथितं, तत्र प्रष्टव्यः किमेतादृशभानं समवायेन व्याप्तम्, उत तेन विनानुपपन्नमिति । न तावद् व्याप्तम्, अन्यत्र सहादर्शनेन व्याप्ति, ग्रहणानुपपत्तेः । नापि समवायेन विनानुपपन्नं, भेदसहिष्णुनाभेदेनोपपत्तेः । अपिच समवायः सभवायिभ्यामत्यन्ताभिन्नो वा, न वा । न तावद्भिन्नः, समवायिव्यतिरेकेण समवायस्याभावप्रसङ्गात् । भिन्नत्वे तु समवायस्य समवायिभ्यां सम्बन्धोऽस्ति वा, न वा । न तावदस्तीति वाच्यं, तस्यापि सम्बन्धस्य सम्बन्धान्तरकल्पनेनानवस्थाप्रसङ्गात् । नापि नास्तीति वाच्यं, पिण्डसामान्य समवायानां परस्परं सम्बन्धाभावे सति 'इयं गौः' इति व्यवहारमपहाय 'पिण्डगोत्वसमवाया' इति व्यवहारस्वीकारप्रसङ्गात् । तस्माद्वयवावयविनोर्जातिजातिमतोः क्रियाक्रियावतोश्च