सामग्री पर जाएँ

पृष्ठम्:मानमेयोदयः.djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११३
प्रमेयपरिच्छेदे कर्मनिर्णयः ।


मेव । नन्वन्यत्र क्लृप्तक्रिये श्येनादौ कर्मकल्पनादेव स्थाणौ संयोगवियोगयो रुपपत्तेर्न तत्र कर्मकल्पनमिति चेद, मैवम् । श्येनस्यान्यन्त्र कुत्रापि कृतक्रियत्वानुपपत्तेः । तथाहि - नहि भवतामाकाशदेशसंयोगविभागयोदर्शनात् पतचिणि क्लृप्तक्रियत्वम्, आकाशदेशस्य भवतामप्रत्यक्षत्वात् । न च वियद्गततेजोवयवसंयोगविभागदर्शनात् क्लृप्तक्रियत्वम् । तत्रापि तेजो- वयवानामेव श्येनावयवैः सह संयोगवियोगयोर्दर्शनात् तेजोवयवेष्वेव कर्मकल्पनप्रसङ्गात् । एवं सर्वत्र दर्शयितव्यम् । इति सकललोकप्रसिद्धस्थावरजङ्गमविभागोऽपि दत्तजलाञ्जलिरासीदायुष्मताम् । अपिच, अन्धकारे खद्योतः पतती ति प्रत्ययो निरालम्बन एव भवेद्, अत्यन्तासत्त्वाद् भवतामन्धकारपदार्थस्य । न च तत्रापि खद्योतगतेनैव तेजोंशेन संयोगविभागाविति वाच्यम् । खद्योतस्य स्वगतेन तेजसा कदाचिदपि वियोगाप्रतीतेः । न च नयनस्य विपरिवृत्त्यावलोकनानुभितदेशसंयोगविभागाभ्यां खद्योते कर्मकल्पनमिति (चेद् ? वाच्यम्) । अभिमुखपतनादौ तदसम्भवात् । 'यथा देवदत्तस्य गतिपूर्विकां देशान्तरप्राप्तिभवलोक्यादित्येऽपि गतिस्मरणम्' इति भाष्यमप्युपेक्षणयिमासीद् भवताम्, उभयत्रापि कर्मणोऽनुमेयत्वे दृष्टान्तदार्ष्टान्तिकत्वेन निर्देशानुपपत्तेः । तस्मात् प्रत्यक्षेणैव कर्मसिद्धिः ॥

इति मानमेयोदये

प्रमेयपरिच्छेदे कर्मनिर्णयः ।