र्थक्रियाकारित्वाभावादप्रामाण्यं स्यात्, स्मृतेश्च क्वचिदर्थक्रियाकारित्वात् प्रामाण्यं स्याद्, इति ।
|
तस्मादज्ञाततत्त्वार्थज्ञानसाधनमेव नः । |
चार्वाकास्तावदेकं द्वितयमपि पुनर्वोद्धवैशेषिकौ द्वौ भासर्वज्ञश्च साङ्ख्यस्त्रितयमुदयनाद्याश्चतुष्कं वदन्ति । प्राहुः प्राभाकराः पञ्चकमपि च वयं तेऽपि वेदान्तविज्ञाः षट्कं पौराणिकास्त्वष्टकम भिदधिरे सम्भवैतिह्ययोगात् ॥
तत्र इन्द्रिय सन्निकर्षजं प्रमाणं प्रत्यक्षम् । कानि पुनरिन्द्रियाणि । उच्यते । चक्षूरसनघ्राणस्पर्शनश्रोत्राणि मनश्चेति षडिन्द्रियाणि ।
|
चक्षुर्नाम कनीशिकान्तरगतं तेजोऽथ जिह्वाग्रग- |
तत्र रूपज्ञानस्य केनचित् कारणेन भवितव्यमिति सामान्येन सिद्धौ दीपादितेजस एव रूपज्ञानहेतुत्वदर्शनात् तैजसं चक्षुः कल्प्यते । तथा रसज्ञानस्यापि कारणकल्पनायां रसव्यजकत्वमपामेव शुष्कवस्तुषु दृष्टमिति रसनमाप्यतया कल्प्यते । एवं चन्दनगतस्य पार्थिवनिम्बत्वगनुलेपनस्य गन्धाभिव्यञ्जकत्वदर्शनाद् गन्धाभिव्यञ्जकत्वेन कल्प्यमानं घ्राणं पार्थिवं